________________
Appendix-IV
99 कृत्वा ।।९३॥ ‘मा रूस्' 'मा तस्' इति गुरुदत्त पदद्वयं रागद्वेषनिग्रहगर्भमुद्धोषयतः कर्मकरणवैकलूयात् अन्यथा स्थिरीभूतं माषतुषेति । श्रयते च तस्यापि निर्वाणप्राप्तिस्तस्माद्बह्वधीतं मयेत्यादिको निष्कारणो गर्वः । श्रुतपर्यायेति कश्चिदेकार्थव्याख्याकारी, कश्चिदर्थद्वयभाषी। इत्यादि वैक्रियसिंहनिर्माण स्थूलभद्रस्य श्रुतसम्प्रदायविच्छेदं च तस्य श्रुत्वा को नामैहिकोपायभ्रान्त्यापि श्रुतमदं कुर्यात् ॥९५।। सम्पर्को बहुश्रुतः सह सङ्गः, उद्यम: प्रोत्साहस्ताभ्यां सुलभम् ॥१६॥ निश्चये परमार्थचिन्तायाम् ॥९७॥ पिशाचवदिति (शुचि !) पिशाचाभिधो विप्रो जनमध्ये अशुचिरेवेति मत्वा समुद्रान्तीपं प्रविष्टः । तत्रैको वणिक् भग्नपोत: पुरापि गत आस्ते । तत्रेचवटास्तद्रसपानात्केवलात् गुदमुखेन गुडखण्डानीव पुरीषं तेन निसृष्टम्; पिशाचेनातं, स सुखीजातः । तन्मिलने स्वरूपे ज्ञाते सति पिशाचविप्रो दुःखीजातः, पुन:पान्तरं गतः । तत्रापि वल्गुल्यादि दूषितानि फलानि भुक्तवान् । तत्राप्येवं जातमिति ॥९८॥ गोत्रकर्मण: उदयेन विपाकेन कृते मनुष्याणां सम्मूर्छजगर्भजभेदभिन्नानां तिरश्चामेकेन्द्रियादीनां तद्विधमेवेति । हीनोत्तममध्यमत्वरूपम् । योनिविशेषाश्चतुरशीतिलक्षाः । योनिरुत्पत्तिस्थानं तस्या विशेषान्तराणि, तद्विभक्तं हीनोत्तमत्वादिकं देवनारकाणां दृष्ट्रा कथं संसारे रतिर्भवतीति उत्तरेण सह सम्बन्धः ॥१०१॥ अपरमपि मदकारणमाह । देशकुलेत्यादि ॥१०२॥ अनादृतगुणदोषः। पञ्चेन्द्रिबलेन विबलो विगतशुभपरिणामबलः ।।१०३॥ तस्मात्कथं घटितव्यमिति पूर्वगाथया च सम्बन्धः । केन भोगिना, अनिष्टाश्च ते विषयाश्च, तदभिकाङ्क्षणेत्येका पृच्छा, कथमेभिः सह वियोगो भवतीति द्वितीया पृच्छा । उत्तरं, सुव्याकु...सुष्टु व्याकुलहृदयतोऽपि अनिष्टविषयाभिकांक्षिणा भोगिना सह वियोगो विषयाणां कथं स्यादिनि प्रश्ने आगमो अभ्यसनीयः अथवा 'वं' अपि शब्दो पूरणार्थे । अनिष्टविषयाभिकाक्षिणा सुव्याकुलहृदयेन च सत् तत्तस्मादागमः सिद्धान्तो अस्य प्राक्तनकर्मक्षयकारित्वात् अभिनवकर्मनिरोधः । कृत्वा च विगतो योगः सम्बन्धस्य चार्थात् कर्मणा यस्मादागमात् स वियोगः निश्चयेन कथं केन प्रकारेण कार्यः, नैवं विधेनागमाभ्यासः कर्तु शक्यात इति भावः ॥१०५॥ उत्सुकः कृतः, निकषे संयोगोत्तरकालं बहुलाः ॥१०६॥ शाकोऽष्टादशो यत्र ॥१०८॥ उपचारशयनाशनसम्भृतपिण्डितरस्यकाणि रतिकराणि ||१०९॥ अपि व्यत्यये, समक्ष प्रत्यक्षं नियत मरणं देवनारकाणाम् । अनियतं मरणं तिर्यङ्मनुष्याणां पदे पदे ॥११०॥ विषयपरिणामो विषयेत्वध्यवसायस्तस्य नियमोऽनुप्रेक्ष्यः पर्यालोचनीय: त्यागरूपः ।।१११।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org