________________
श्री सद्गुरुदेवाय नमः । श्री सद्गुरुः शरणम् । पूज्यपाद अनन्तउपकारी गुरुदेव मुनिराज श्री १००८ भुवनविजयजी
महाराज !
बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे । लालनां पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ।।१।। वितीर्य धर्मसंस्कारानुत्तमांश्च गृहस्थितौ । भवद्भिः सुपितृत्वेन सुबहूपकृतोऽस्म्यहम् ।।२।। ततो भवद्भिर्दीक्षित्वा भगवत्त्यागवर्त्मनि । अहमप्युद्धृतो मार्ग तमेवारोह्य पावनम् ।।३।। ततः शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन भवन्तो मां तीर्थयात्रा: शुभावहाः ।।४।। अनेकशास्त्राध्ययनं भवद्भिः कारितोऽस्म्यहम् । ज्ञानचारित्रसंस्कारैरुत्तमैर्वासितोऽस्मि च ।।५।। ममात्मश्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापताश्च ममोन्नत्यै सदा स्वाखिलशक्तयः ।।६।। ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः। इत्थं भवदनन्तोपकारैरुपकृतोऽस्म्यहम् ।।७।। मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो ! वचोऽतिगा व: खलु मय्युपक्रियाः । असम्भवप्रत्युपकारसाधनाः स्मृत्वाहमद्यापि भवामि गद्गदः ।।८।।
— तत्रभवदन्तेवासी शिशुञ्जम्बूविजयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org