________________
पञ्चमं परिशिष्टम् ।
अनुबन्धफलम्। उच्चारणेऽस्त्यवर्णाद्य आः क्तयोरिनिषेधने । इकारादात्मनेपदमीकाराच्चोभयं भवेत् ।।१।। उदितः स्वरान्नोऽन्तश्चो: क्त्वादाविटो विकल्पनम् । रुपान्त्ये डे परेऽह्वस्व ऋकारादङ् विकल्पकः ।।२।। लकारादङ् समायात्येः सिचि वृद्धिनिषेधकः । ऐः क्तयोरिनिषेधः स्यादोः क्तयोस्तस्य नो भवेत् ।।३।। औकार इड्विकल्पार्थेऽनुस्वारोऽनिविशेषणे । तृकारश्च विसर्गश्चानुबन्धौ भवतो नहि ।।४।। कोऽदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । गेनोभयपदी प्रोक्तो घश्च चजो: कगौ कृतौ ॥५॥ आत्मने गुणरोधे ङञ्चो दिवादिगणो भवेत् । जो वृद्धौ वर्त्तमाने क्त: टः स्वादिष्वथुकारकः ।।६।। त्रिमगर्थो डकार: स्याद् णश्चुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चेच्चापुंसीति विशेषणे ॥७॥ रुधादौ ना(ता ?)गमे पो हि मो दाम: संप्रदानके । यस्तनादौ रकार: स्यात् पुंवद्भावार्थसूचकः ||८|| स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् । शः क्यादि: क्य: शिति प्रोक्त: षः षितोऽविशेषणे ॥९॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातूनां प्रत्ययानां चानुबन्ध: कथितो मया ॥१०॥
ધાતુ અને પ્રત્યાયના અનુબંધના ફળનું પ્રતિપાદન કરનારી કારિકાઓનો भावार्थ. - ___ अनुबध्यते कार्यार्थं संबध्यते इत्यनुबन्धः मा व्युत्पत्यर्थन अनुसारे, अमु आर्य માટે જે યોજાય તે અનુબંધ કહેવાય છે. અર્થાત્ ઉપદેશ અવસ્થામાં જે આપેલો હોય છતાં પ્રયોગ અવસ્થામાં જે દેખાતો ન હોય તે અનુબંધ કહેવાય છે. (૧) અવર્ણસંબંધી પ્રથમ અક્ષર = અનુબંધ માત્ર ઉચ્ચારણ માટે જ છે. જેમકે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org