________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
पदान्तस्थस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य च-ट-तेषु सद्वितीयेषु अधुट्परेषु परेषु , श-ष-सा यथासंख्यं स्युः , अनुस्वारा-ऽनुनासिकौ चाऽऽगमा-ऽऽदेशौ पूर्वस्य क्रमेण स्याताम् । भवांश्चर: , भवाँश्चरः । भवांश्छयति , भवाँश्छ्यति । भवाष्टक्कः , भवाँष्टकः । भवांष्ठकार: , भवाँष्ठकारः । भवांस्तनुः , भवाँस्तनुः । भवांस्थुडति , भवाँस्थुडति । अप्रशान इति किम् ? प्रशाञ्चरः । अधुट्पर इति किम् ? भवान् त्सरुक: ।।८।।
पुमोऽशिट्यघोषेऽख्यागि रः ।१।३॥९॥ पुम् इति पुम्सोः संयोगलुक्यनुकरणम् , अधुट्परे अघोषे शिट्-ख्याग्वर्जे परे पुम् इत्येतस्य र: स्यात् , अनुस्वारानुनासिकौ च पूर्वस्य । पुंस्कामा , पुंस्कामा । अशिटीति किम् ? पुंशरः । अघोषे इति किम् ? पुंदासः । अख्यागीति किम् ? पुंख्यातः । अधुट्पर इत्येव पुंक्षार: ।।९।।
नृनः पेषु वा ।१॥३॥१०॥ नृन् इति शसन्तस्य नुरनुकरणम् । नृन: पे परे रो वा स्यात् , अनुस्वारानुनासिकौ च पूर्वस्य । नृपाहि , नॅ७पाहि , नृन्पाहि ॥१०॥
द्विः कानः कानि सः ।१॥३॥११॥ कानः किम: शसन्तस्य द्विरुक्तस्य कानि परे स: स्यात् , अनुस्वारानुनासिको च पूर्वस्य । कांस्कान् , काँस्कान् । द्विरिति किम् ? कान् कान् पश्यति ॥११॥
स्सटि समः ।।३।१२॥ ___ समः स्सटि परे स: स्यात् , अनुस्वारानुनासिकौ च पूर्वस्य । संस्स्कर्ता , सँस्स्कर्ता । स्सटीति किम् ? संकृतिः ॥१२॥
लुक् ।१॥३॥१३॥ संम: स्सटि परे लुक् स्यात् । सस्कर्ता ॥१३।।
तौ मु-मो व्यञ्जने स्वौ ।१॥३॥१४॥ मोर्खागमस्य पदान्तस्थस्य च मस्य व्यञ्जने परे तस्यैव स्वौ तौ अनुस्वारा-ऽनुनासिकौ क्रमेण स्याताम् । चंक्रम्यते , चङ्क्रम्यते । वंवम्यते , ववम्यते । त्वं करोषि , त्वङ्करोषि । कंव: , कवः ॥१४॥ १. पुंसोः पा१ खं२,३ J3 ।। २. स्य नृशब्दस्यानुक खं१ खंसं२ । स्यानुक J3 ॥ ३. समो मस्य स्सटि खं१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org