________________
४२४
स्वोपज्ञलघुवृत्तिविभूपितं
गोस्तत्पुरुषात् ।।३।१०५॥ गवन्तात् तत्पुरुषादलुकोऽट् स्यात् । राजगवी । तत्पुरुषादिति किम् ? चित्रगुः । अलुक इत्येव ? पञ्चगु: पटः ॥१०५।।
राजन्-सखेः ।७३।१०६॥ एतदन्तात् तत्पुरुषादट् स्यात् । पञ्चराजी , राजसखः ॥१०६।।
राष्ट्राख्याद् ब्रह्मणः ।७।३।१०७॥ राष्ट्रार्थात् परो यो ब्रह्मा तदन्तात् तत्पुरुषादट् स्यात्। सुराष्ट्रब्रह्मः । राष्ट्राख्यादिति किम् ? देवब्रह्मा नारदः ।।१०७||
कु-महद्भ्यां वा ।७।३।१०८॥ आभ्यां परो यो ब्रह्मा तदन्तात् तत्पुरुषाद्वाऽट् स्यात् । कुब्रह्मः , कुब्रह्मा : महाब्रह्मः . महाब्रह्मा ।।१०८।।
ग्राम-कौटात् तक्ष्णः ।७।३।१०९॥ आभ्यां परा यस्तक्षा तदन्तात् तत्पुरुषादट् स्यात् । ग्रामतक्ष: , कौटतक्ष: ।।१०।।
गोष्ठा-ऽतेः शुनः ।७३।११०॥ आभ्यां परो य: श्वा तदन्तात् तत्पुरुषादट् स्यात् । गोष्ठश्वः , अतिश्वो वराहः ।।११०॥
प्राणिन उपमानात् ।७।३।१११॥ प्राण्यर्थादुपमानात् परो य: श्वा तदन्तात् तत्पुरुषादट् स्यात् । व्याघ्रश्वः । प्राणिन इति किम् ? फलकश्वा ।।१११।।
अप्राणिनि ।७।३।११२॥ अप्राण्यर्थ उपमानवाची य: श्वा तदन्तात् तत्पुरुषादट् स्यात् । आकर्षश्व: । अप्राणिनीति किम् ? वानरश्वा ।।११२||
__ पूर्वोत्तर-मृगाच सक्थ्नः ।७३।११३॥ एभ्य उपमानार्थाच्च परो य: सक्थिस्तदन्तात् तत्पुरुषादट् स्यात् । पूर्वसक्थम् , उत्तरसक्थम् , मृगसक्थम् , फलकसक्थम् ।।११३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org