________________
४२२
स्वोपज्ञलघुवृत्तिविभूषितं
अन्नन्तादव्ययीभावादत् स्यात् । उपतक्षम् ।।८८||
नपुंसकाद् वा ।७।३।८९॥ अनन्तं यत् क्लीबं तदन्तादव्ययीभावादद् वा स्यात् । अनुलोमम् , अनुलोम ।।८९||
गिरि-नदी-पौर्णमास्याग्रहायण्यपञ्चमवाद् वा ।७।३।९०॥ एतदन्तात् पञ्चमवर्जवान्ताचाव्ययीभावादद् वा स्यात् । अन्तर्गिरम् , अन्तर्गिरि ; उपनदम् , उपनदी ; उपपौर्णमासम् , उपपौर्णमासि ; उपाग्रहायणम् , उपाग्रहायणि ; उपसुचम् , उपयुक् ।।९०।।
संख्याया नदी-गोदावरीभ्याम् ।७।३।९१॥ संख्यार्थात् परौ यावेतौ तदन्तादव्ययीभावादत् स्यात्। पञ्चनदम् , द्विगोदावरम् ।।९१|
शरदादेः ।७३।९२॥ शरदाद्यन्तादव्ययीभावादत् स्यात् । उपशरदम् , प्रतित्यदम् ।।९२||
जराया जरस् च ।७।३।९३॥ जरान्तादव्ययीभावादत् स्यात् , तद्योगे च जराया जरस् । उपजरसम् ।।९३।।
- सरजसोपशुना-ऽनुगवम् ।७।३।९४॥ एतेऽव्ययीभावा अदन्ता निपात्याः । सरजसं भुङ्क्ते , उपशुनमास्ते , अनुगवमन:
॥२४॥
जात-महद्-वृद्धादुक्ष्णः कर्मधारयात् ।।३।९५॥ एभ्य: परो य उक्षा , तदन्तात् कर्मधारयादत् स्यात् । जातोक्षः , महोक्ष: , वृद्धोक्ष: । कर्मधारयादिति किम् ? जातस्योक्षा जातोक्षा ।।९५।।
स्त्रियाः पुंसो द्वन्द्वाच ।७।३।९६॥ स्त्रिया: परो य: पुमान् , तदन्तात् द्वन्द्वात् कर्मधारयाच्चाऽत् स्यात् । स्त्रीपुंसौ , स्त्रीपुंस: , शिखण्डी ॥९६।। ऋक्साम→जुप-धेन्वनडुह-वाङ्मनसा-ऽहोरात्र-रात्रिंदिव-नक्तंदिवा१. भावादः स्यात् पा२ ।। २. भावादः स्यात् पार ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org