SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ खंर आमुखम् नं. २३८, पत्रसंख्या १-८५ । खंभातनगरे शान्तिनाथतालपत्रीयजैनग्रन्थभाण्डागारे विद्यमाना प्रति:, नं. २३९, पत्रसंख्या १-८३ । पा० = पाटणनगरे शान्तिनाथतालपत्रीयजैनग्रन्थभाण्डागारे विद्यमाना संघभंडार सत्का प्रतिः, डाभडो नं. ११०, पोथी नं. १३२, पत्रसंख्या १ ९१ I प्रा० = अहमदाबादनगरे प्राच्यविद्याभवने विद्यमाना प्रतिः, पत्रसंख्या १- ४० तालपत्रोपरि लिखितेषु एतेषु चतुर्ष्वपि आदर्शेषु केवलः सूत्रपाठः, व्याकरणसम्बन्धिनो न्यायाः, नामलिङ्गानुशासनम्, धातुपाठः, उणादिसूत्रपाठः इत्येतद् वर्तते । द्वितीये परिशिष्टे धातुपाठः एतानादर्शानवलम्ब्य अस्माभिरुपन्यस्तः २६ कतिपयेषु स्थानेषु सूत्रस्य वृत्तेश्च पाठनिर्णयार्थं बृहद्वृत्तेरपि तालपत्रोपरि लिखिता आदर्शा अस्माभिरुपयुक्ताः तथाहि - " Jain Education International J = जेसलमेरस्थिता प्रतिः K = खंभातनगरे विद्यमाना प्रति:, तत्र K] प्रतिः क्रमाङ्क : २४३, K2 प्रतिः क्रमाङ्कः २४४ । P = पाटणनगरे विद्यमाना प्रतिः । ये केचन पाठा मूलादर्शेषु नासन् किन्तु पश्चात् केनचित् पत्रस्य उपरितने भागे अधस्तने भागे पार्श्वयोर्वा संशोध्य संस्कृत्य वा निर्दिष्टास्ते पाठाः टिप्पणेषु P1सं० इत्यादिरूपेण सं० इति संकेतेन सह : नाभिरत्र निर्दिष्टाः, ये तु मूलादर्शस्था: पाठास्ते P1मू० इत्येवं मू० इति संकेतेन सह निर्दिष्टाः । संशोधने पाणिनीय- चान्द्र - जैनेन्द्र- शाकटायन अस्य मलयगिरिशब्दानुशासनादिव्याकरणान्यपि यथायोगमुपयुक्तानि । महता प्रयत्नेन विहितेऽपि संशोधने या: काश्चन अशुद्धयः अस्माकं मतिदोषाद् दृष्टिदोषाद्वा दृष्टिगोचरा भवेयुः ताः स्वयमेव पठितृभिः प्रमार्जनीया अस्मभ्यमपि च निवेद्याः । वयं तेषामुपकारं मंस्यामहे । For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy