SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ३८४ स्वोपज्ञलघुवृत्तिविभूपितं ? हस्तिकान् विक्रीणीते ॥११०॥ देव-पथादिभ्यः ।७।११११॥ एभ्यस्तुल्ये संज्ञा-प्रतिकृत्यो: को न स्यात् । देवपथ: , हंसपथः ।१११।। बस्तेरेयञ् ।।११२॥ बस्तेस्तस्य तुल्येऽर्थे एयञ् स्यात् । बास्तेयी प्रणालिका ॥११२।। शिलाया एयच्च ७१।११३॥ अस्मात् तस्य तुल्येऽर्थे एयच् एयञ् च स्यात् । शिलेयम् , शैलेयं दधि ॥११३॥ शाखादेर्यः ।।११११४॥ एभ्यस्तस्य तुल्ये य: स्यात् । शाख्य: , मुख्यः ॥११४|| द्रोभव्ये ७१।११५॥ द्रोस्तस्य तुल्ये भव्येऽर्थे य: स्यात् । द्रव्यमयं ना , स्वर्णादि च ॥११५|| कुशाग्रादीयः ।७।१।११६॥ अस्मात् तस्य तुल्ये ईय: स्यात् । कुशाग्रीया बुद्धिः ।।११६।। काकतालीयादयः ।७१।११७॥ एते तस्य तुल्ये ईयान्ता: साधवः स्युः । काकतालीयम् , खलतिबिल्वीयम् ॥११७॥ शर्करादेरण् ।७।१११८॥ एभ्यस्तस्य तुल्येऽण् स्यात् । शार्करं दधि , कापालिकम् ॥११८|| अः सपढ्याः ।७।१११९॥ अस्मात् तस्य तुल्ये अ: स्यात् । सपत्नः ॥११९।। एकशालाया इकः ।७।१।१२०॥ अस्मात् तस्य तुल्ये इक: स्यात् । एकशालिकम् ॥१२०॥ गोण्यादेचेकण् ।७।१।१२१॥ एभ्य एकशालायाश्च तस्य तुल्ये इकण् स्यात् । गौणिकम् , आङ्गुलिकम् , ऐकशालिकम् ॥१२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy