SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३६८ स्वोपज्ञलघुवृत्तिविभूषितं , प्रास्थिक: , आंश्विकः ।।१५५।। पृथिवी-सर्वभूमेरीश-ज्ञातयोश्वाञ् ।६।४।१५६॥ आभ्यां षष्ठ्यन्ताभ्यामीश-ज्ञातयोरर्थयोस्तस्य हेतुः संयोगोत्पात इति विषये चाऽञ् स्यात् । पार्थिवः , सार्वभौम ईशो ज्ञात: संयोगोत्पातरूपो हेतुर्वा ।।१५६।। लोक-सर्वलोकाज्ज्ञाते।६।४।१५७॥ आभ्यां षष्ठचन्ताभ्यां ज्ञातेऽर्थे यथोक्तं प्रत्यय: स्यात्। लौकिक: , सार्वलौकिक: ||१५७|| तदत्राऽस्मै वा वृद्ध्याय-लाभोपदा-शुल्कं देयम् ।६।४।१५८॥ तदिति प्रथमान्ताद् अत्रेति सप्तम्यर्थेऽस्मै इति चतुर्थ्यर्थे वा यथोक्तं प्रत्यय: स्यात् , तच्चेत् प्रथमान्तं वृद्धयादि देयं च स्यात्। वृद्धि-पञ्चकं शतम् , आय-पञ्चको ग्राम: , लाभ-पञ्चक: पट: , उपदा लेञ्चा---- पञ्चको व्यवहारः , शुल्क-पञ्चकं शतम् , एवं शत्यं , शतिकम् ।।१५८॥ पूरणा-ऽर्धादिकः ।६।४।१५९॥ __ पूरणप्रत्ययान्तादर्धाच्च प्रथमान्ताद् अस्मिन् अस्मै वा दीयते इत्यर्थयोरिक: स्यात् , प्रथमान्तं चेद् वृद्धयादि । द्वितीयिकः , अर्धिका ।।१५९।। भागाद् येकौ ।६।४।१६०। भागात् तदस्मिन्नस्मै वा वृद्धयाद्यन्यतमं देयमिति विषये येकौ स्याताम् । भाग्य: , भागिका ॥१६०॥ तं पचति द्रोणाद् वाऽञ् ।६।४।१६१॥ तमिति द्वितीयान्ताद् द्रोणात् पचत्यर्थे वाऽञ् स्यात् । द्रौणी , द्रौणिकी स्थाली ।।१६।। सम्भवदहरतोश्च ।६।४।१६२॥ द्वितीयान्तात् पचत्-सम्भवदवहरत्सु यथोक्तं प्रत्यय: स्यात् । आधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः , अतिरेकेणावहारः । प्रास्थिकी स्थाली ॥१६२।। पात्रा-ऽऽचिता-ऽऽढकादीनो वा ।।४।१६३॥ १. आश्विकः गाणिकः पार ॥ २. वृद्धि: J2मू P3मू विना ।। ३. आय: J2मू० P3मू० विना ।। ४. लाभ: J2मू० विना ॥ ५. लञ्चः J2 P3विना ।। ६. शुल्कः J2सं० J1,J3 । शुल्कं P3 ।। ७. भागिकः पार J1,3 ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy