SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धाचलमण्डन-ऋषभदेवस्वामिने नमः | श्री शान्तिनाथाय नमः | श्रीशङ्खेश्वरपार्श्वनाथाय नमः | श्रीमहावीरस्वामिने नमः । श्री गौतमस्वामिने नमः पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मभ्यो पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो नमः | पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मेभ्यो नमः । नमः आमुखम् । अनन्तोपकारिणः परमकृपालोः परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री १००८ भुवनविजयजीतातपादानां च कृपया साहाय्येन च तालपत्रोपरिलिखित विविधादर्शानुसारेण संशोध्य सम्पाद्य च स्वोपज्ञलघुवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनं विदुषामध्येतॄणां तद्भक्तानां च पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । विरचयितारः परमार्हतकुमारपाल भूपालप्रतिबोधकाः कलिकालसर्वज्ञा विश्वविख्याता आचार्यभगवन्तः श्रीहेमचन्द्रसूरीश्वरा अस्य विरचयितारः । गुर्जरदेशाधिपतेः सिद्धराज जयसिंहदेवस्य प्रार्थनया १९९४ तमविक्रमसंवत्सरस्य प्रान्ते ११९५ तमविक्रमसंवत्सरस्य प्रारम्भे वा सर्वाङ्गसम्पूर्णमिदं शब्दानुशासनं विरचितमिति ऐतिह्यविद आमनन्ति । आचार्य भगवतां श्रीहेमचन्द्रसूरीश्वराणां संक्षिप्तं जीवनवृत्तम् । ११४५ तमे वैक्रमे वर्षे कार्तिक्यां पूर्णिमायां धंधुकानगरे जन्म । पितुर्नाम चाचिग इति, मातुर्नाम पाहिनी इति, चांगदेव इति पुत्रस्य नाम। परमविदुषामाचार्यभगवतां देवचन्द्रसूरीश्वराणां समीपे केषांचिद् मतेन वैक्रमे ११५० तमे वर्षे, अपरेषां मतेन ११५४ तमे वर्षे माघशुक्लचतुर्दश्यां शनिवासरे स्तम्भतीर्थे (खंभातनगरे) प्रव्रज्या । ११६६ तमे वर्षे नागपुरे सूरिपदे प्रतिष्ठा, पाहिन्याश्च प्रव्रज्या । प्रव्रज्यासमये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy