SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २४४ स्वोपज्ञलघुवृत्तिविभूषितं आभ्यां कर्मभ्यां परात् हगः पशौ कर्तरि इ: स्यात् । दृतिहरि: श्वा , नाथहरि: सिंहः ॥९७|| रजः-फले-मलाद् ग्रहः ।५।१९८॥ __ एभ्य: कर्मभ्यः पराद् ग्रहेरि: स्यात् । रजोग्रहिः , फलेग्रहिः , मलग्रहिः ॥९८|| देव-वातादापः ।।१९९॥ आभ्यां कर्मभ्यां पराद् आपेरि: स्यात् । देवापि: , वातापिः ।।९९॥ शकृत्-स्तम्बाद् वत्स-व्रीहौ कृगः ।५।१११००॥ आभ्यां कर्मभ्यां परात् कृगो यथासङ्ख्यं वत्स-व्रीह्यो: कोरि: स्यात् । शकृत्करिर्वत्सः , स्तम्बकरिीहिः ॥१००|| किम्-यत्-तद्-बहोरः ।५।१११०१॥ एभ्य: कर्मभ्यः परात् कृग: अ: स्यात् । किंकरा , यत्करा , तत्करा , बहुकरा ।।१०१।। सङ्ख्या-ऽह-दिवा-विभा-निशा-प्रभा-भाश्चित्र-कर्नाद्यन्ता-ऽनन्तकार-बाहरु-र्धनु-र्नान्दी-लिपि-लिवि-बलि-भक्ति-क्षेत्र-जपा-क्षपाक्षणदा-रजनि-दोषा-दिन-दिवसाट्टः ।।१।१०२॥ सङ्ख्येत्यर्थप्रधानमपि , एभ्य: कर्मभ्य: परात् कृगष्टः स्यात् । सङ्ख्याकरः , द्विकरः ; अहस्करः , दिवाकरः , विभाकरः , निशाकरः , प्रभाकरः , भास्कर: , चित्रकर: , कर्तृकरः , आदिकरः , अन्तकरः , अनन्तकरः , कारकर: , बाहुकर: , अरुष्करः , धनुष्कर: , नान्दीकर: , लिपिकर: , लिविकर: , बलिकर: , भक्तिकरः , क्षेत्रकरः , जङ्घाकर: , क्षपाकर: , क्षणदाकरः , रजनिकरः , दोषाकरः , दिनकरः , दिवसकरः ॥१०२।। . हेतु-तच्छीला-ऽनुकूलेऽशब्द-श्लोक-कलह-गाथा-वैर-चाटुसूत्रमन्त्र-पदात् ।५।१११०३॥ एषु कर्तृषु शब्दादिवर्जात् कर्मण: परात् कृगष्ट: स्यात् । यशस्करी विद्या , श्राद्धकरः , प्रेषणकरः । शब्दादिनिषेधः किम् ? शब्दकार इत्यादि ।।१०३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy