________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्।
२१३
, स्तनयित्नुः ||८५॥
लघोर्यपि ।४॥३॥८६॥ लघो: परस्य णेर्यपि अय् स्यात् । प्रशमय्य । लघोरिति किम् ? प्रतिपाद्य ।।८६।।
वाऽऽनोः ।४।३।८७॥ आप्नो: परस्य णेर्यप्यय् वा स्यात् । प्रापय्य , प्राप्य । आप्नोरिति किम् ? अध्याप्य ।।८७||
मेडो वा मित् ।४।३।८८॥ मेङो यपि मिद् वा स्यात् । अपमित्य , अपमाय ।।८८||
क्षेः क्षी।४।३।८९॥ क्षेर्यपि क्षी: स्यात् । प्रक्षीय ।।८९।।।
क्षय्य-जय्यौ शक्तौ ।४।३।९०॥ क्षि-ज्योरन्तस्य शक्तौ गम्यायां ये प्रत्ययेऽय् निपात्यते । क्षय्यो व्याधिः , जय्य: शत्रुः । शक्ताविति किम् ? क्षेयम् , जेयम् ।।९०॥
क्रय्यः क्रयार्थे।४॥३॥९॥ क्रियोऽन्तस्य ये प्रत्ययेऽय् निपात्यते , क्रयाय चेत् प्रसारितोऽर्थः । क्रय्यो गौः । क्रयार्थ इति किम् ? क्रेयं ते धान्यं न चास्ति प्रसारितम् ।।९।।
सस्तः सि ।४।३।९२॥ ___ धातो: सन्तस्याऽशिति सादौ प्रत्यये विषयभूते त् स्यात् । वत्स्यति । स इति किम् ? यक्षीष्ट । सीति किम् ? वसिषीष्ट ।।९२।।
दीय दीङः क्ङिति स्वरे ।४।३।९३॥ दीङ: डिति अशिति स्वरे दीय् स्यात् । उपदिदीये । विडतीति किम् ? उपदानम् । स्वर इति किम् ? उपदेदीयते ।।९३।।
इडेत्-पुसि चाऽऽतो लुक् ।४।३।९४॥ डित्यशिति स्वरे , इटि , एति , पुसि च परे आदन्तस्य धातोर्लक् स्यात् १. क्षीः पार,३ ।। २. जेयम् P2, पासं४ विना नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org