________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
२११
२११
सनस्तत्रा वा ।४।३।६९॥ सनो लुपि सत्याम् आ वा स्यात् । असात , असत ; असाथा: , असथा: । तत्रेति किम् ? असनिष्ट ।।६९।।
धुड्-हस्वाल्लुगनिटस्त-थोः ।४।३।७०॥ धुडन्तात् ह्रस्वान्ताच्च धातोः परस्याऽनिटः सिचस्तादौ थादौ च लुक् स्यात् । अभित्त , अभित्थाः , अकृत , अकृथाः । अनिट इति किम् ? व्यद्योतिष्ट ||७०।
इट ईति ।४।३।७१॥ इट: परस्य सिच ईति लुक् स्यात् । अलावीत् । इट इति किम् ? अकार्षीत् । ईतीति किम् ? अभणिषम् ।।७१।।
सो धि वा ।४॥३॥७२॥ धातोर्धादौ प्रत्यये सो लुग् वा स्यात् । चकाधि , चकाद्धि ; अलविध्वम् , अलविड्ढ्व म् ॥७२।।
अस्तेः सि हस्त्वेति ।४।३।७३॥ अस्ते: [ स: ] सि सादौ प्रत्यये लुक् स्यात् , एति तु सो ह: । असि , व्यतिसे , व्यतिहे , भावयामाहे ॥७३।।
दुह-दिह-लिह-गुहो दन्त्यात्मने वा सकः ।४।३।७४॥ एभ्य: परस्य सको दन्त्यादौ आत्मनेपदे लुग् वा स्यात् । अदुग्ध , अधुक्षत ; अदिग्ध , अधिक्षत ; अलीढा: , अलिक्षथा: ; न्यगुह्वहि , न्यघुक्षावहि । दन्त्येति किम् ? अधुक्षामहि ।।७४।।
स्वरेऽतः ।४।३।७५॥ सकोऽस्य स्वरादौ प्रत्यये लुक् स्यात् । अधुक्षाताम् ।।७५।।
दरिद्रोऽद्यतन्यां वा ।४।३।७६॥ दरिद्रोऽद्यतन्यां विषये लुग् वा स्यात् । अदरिद्रीत् , अदरिद्रासीत् ।।७६।।
अशित्यस्सन्-णकज्-णका-ऽनटि ।४।३७७॥ सादिसन्नादिवर्जे अशिति विषये दरिद्रो लुक् स्यात् । दुर्दरिद्रम् । अशितीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org