________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
२०९
जागुऔं णव्येव च णिति वृद्धि: स्यात् । अजागारि , जजागार । त्रिणवीति किम् ? जागरयति ॥५२॥
आत ऐः कृौ ।४।३॥५३॥ आदन्तस्य धातोर्णिति कृति औ च ऐ: स्यात् । दाय: , दायकः , अदायि । कृदिति किम् ? ददौ ।।५३।।
न जन-बधः ।४।३।५४॥ अनयो: कृति णिति नौ च वृद्धिर्न स्यात् । प्रजन: , जन्य: , अजनि ; बध: , बध्य: , अबधि ॥५४॥
मोऽकमि-यमि-रमि-नमि-गमि-वमा-ऽऽचमः १४॥३॥५५॥ मन्तस्य धातो: कम्यादिवर्जस्य णिति कृति जौ च वृद्धिर्न स्यात् । शम: , शमक: , अशमि । कम्यादिवर्जनं किम् ? काम: , कामुकः अकामि ; यामः , रामः , नामः , अगामि , वामः , आचामकः ।।५५।।
विश्रमेर्वा ।४।३॥५६॥ विश्रमेगिति कृति नौ च वृद्धिर्वा स्यात् । विश्राम: , विश्रमः ; विश्रामक: , विश्रमकः ; व्यश्रामि , व्यश्रमि ।।५६||
उद्यमोपरमौ ।४।३३५७॥ उदुपाभ्यां यमि-रम्योर्घञि वृद्धयभावो निपात्यते । उद्यमः , उपरमः ॥५७||
णिद्वाऽन्त्यो णम् ।४।३।५८॥ परोक्षाया अन्त्यो णव् णिद्वा न स्यात् । अहं चिचय , चिचाय ; चुकुट , चुकोट । अन्त्य इति किम् ? स पपाच ।।५८।।
उत और्विति व्यञ्जनेऽद्वेः ।४।३।५९॥ अद्वयुक्तस्योदन्तस्य धातोर्व्यञ्जनादौ विति औः स्यात् । यौति । उत इति किम् ? एति । धातोरित्येव-सुनोति । वितीति किम् ? रुत: । व्यञ्जन इति किम् ? स्तवानि । अद्वेरिति किम् ? जुहोति ।।५९||
वोर्णोः।४।३।६०॥ ऊपोरद्वयुक्तस्य व्यञ्जनादौ विति और्वा स्यात् । प्रोण्णौति , प्रोण्र्णोति । अद्वेरित्येव-प्रोर्णोनोति ।।६०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org