________________
११४
स्वोपज्ञलघुवृत्तिविभूषितं
पूर्वः कालो यस्य तद्वाच्येकादीनि चैकार्थानि परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । स्नातानुलिप्तः , एकशाटी , सर्वान्नम् , जरद्गवः , पुराणकवि: , नवोक्ति: , केवलज्ञानम् । एकार्थमित्येव-स्नात्वाऽनुलिप्तः ॥९७||
दिगधिकं संज्ञा-तद्धितोत्तरपदे ।३।११९८॥ दिग्वाच्यधिकं चैकार्थं नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् , संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परत: । दक्षिणकोशला: , पूर्वेषुकामशमी , दाक्षिणशाल: , अधिकषाष्टिकः , उत्तरगवधनः , अधिकगवप्रियः ॥९८॥
संख्या समाहारे च द्विगुश्वाऽनाम्न्ययम् ।३।११९९॥ संख्यावाचि परेण नाम्ना समासस्तत्पुरुष: कर्मधारयश्च स्यात् , संज्ञातद्धितयोविषये , उत्तरपदे च परे , समाहारे चार्थे , अयमेव चाऽसंज्ञायां द्विगुश्च । पञ्चाम्राः , सप्तर्षयः ; द्वैमातुरः , अध्यर्द्धकंस: ; पञ्चगवधनः , पञ्चनावप्रियः ; पञ्चराजी । समाहारे चेति किम् ? अष्टौ प्रवचनमातरः । अनाम्नीति किम् ? पाश्चर्षम् ।।९९||
निन्द्यं कुत्सनैरपापायैः ।३।११००॥ निन्द्यवाचि निन्दाहेतुभि: पापादिव : सह समासस्तत्पुरुष: कर्मधारयश्च स्यात् । वैयाकरणखसूची , मीमांसकदुर्दुरूढः । निन्द्यमिति किम् ? वैयाकरणश्चौर: । अपापाद्यैरिति किम् ? पापवैयाकरण: , हतविधिः ॥१०॥
उपमानं सामान्यैः ।३।१।१०१॥ उपमानवाच्येकार्थमुपमानोपमेयसाधारणधर्मवाचिभिरेव समासस्तत्पुरुषः कर्मधारयश्च स्यात् । शस्त्रीश्यामा , मृगचपला । उपमानमिति किम् ? देवदत्ता श्यामा । सामान्यैरिति किम् ? अग्निर्माणवकः ॥१०१।।
उपमेयं व्याघ्रायैः साम्यानुक्तौ ।३।१।१०२॥ उपमेयवाच्येकार्थमुपमानवाचिभिर्व्याघ्राद्यैः साधारणधर्मानुक्तौ समासस्तत्पुरुषः कर्मधारयश्च स्यात् । पुरुषव्याघ्रः , श्वसिंही। साम्यानुक्ताविति किम् ? पुरुषव्याघ्रः शूर इति मा भूत् ।।१०२|| पूर्वा-ऽपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीरम् । ३३११०३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org