________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
६३
पाटलिपुत्राद् वृष्टो मेघ: । वयं इति किम् ? अपशब्दो मैत्रस्य ||७१||
यतः प्रतिनिधि-प्रतिदाने प्रतिना।२।२।७२॥ प्रतिनिधिमुख्यसदृशोऽर्थः , प्रतिदानं गृहीतस्य विशोधनम् , ते यत: स्यातां तद्वाचिन: प्रतिना योगे पञ्चमी स्यात् । प्रद्युम्नो वासुदेवात् प्रति । तिलेभ्यः प्रति माषानस्मै प्रयच्छति ।।७२।।
__ आख्यातर्युपयोगे ।२।२।७३॥ आख्याता प्रतिपादयिता , तद्वाचिन: पञ्चमी स्यात् , उपयोगे नियमपूर्वकविद्याग्रहणविषये । उपाध्यायादधीते आगमयति वा । उपयोग इति किम् ? नटस्य शृणोति ॥७३॥
गम्ययपः कर्मा-ऽऽधारे ।२।२।७४॥ गम्यस्याऽप्रयुज्यमानस्य यबन्तस्य कर्मा-ऽऽधारवाचिभ्यां पञ्चमी स्यात् । प्रासादादासनाद्वा प्रेक्षते । गम्यग्रहणं किम् ? प्रासादमारुह्य शेते , आसने उपविश्य भुङ्क्ते ।।७४||
प्रभृत्यन्यार्थ-दिक्शब्द-बहिरारादितरैः ।२।२।७५॥ प्रभृत्यर्थैरन्याथैर्दिक्शब्दैर्बहिरादिभिश्च युक्तात् पञ्चमी स्यात् । तत: प्रभृति , ग्रीष्मादारभ्य , अन्यो भिन्नो वा मैत्रात् ; ग्रामात् पूर्वस्यां दिशि वसति , उत्तरो विन्ध्यात् पारियात्र: , पश्चिमो रामाद् युधिष्ठिरः , बहिर् आरात् इतरो वा ग्रामात् ।।७५||
ऋणाद्धेतोः ।।२।७६॥ हेतुभूतऋणवाचिन: पञ्चमी स्यात् । शताद् बद्ध: । हैंतोरिति किम् ? शतेन बद्धः ॥७६।।
गुणादस्त्रियां नवा ।२।२।७७॥ अस्त्रीवृत्तेर्हेतुभूतगुणवाचिनः पञ्चमी वा स्यात् । जाड्यात् जाडयेन वा बद्धः , ज्ञानात् ज्ञानेन वा मुक्तः । अस्त्रियामिति किम् ? बुद्ध्या मुक्तः ॥७७॥
आरादथैः ।।२।७८॥ आराद् दूरमन्तिकं च , तदर्थैर्युक्तात् पञ्चमी वा स्यातू । दूरं विप्रकृष्टं वा १. हेताविति खं१ विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org