________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
वीक्ष्य इति किम् ? मैत्रमीक्षते ॥५८॥
उत्पातेन ज्ञाप्ये ।२।२।५९॥ उत्पात आकस्मिकं निमित्तम् , तेन ज्ञाप्ये वर्तमानाच्चतुर्थी स्यात् ।
वाताय कपिला विद्युदातपायातिलोहिनी । ___पीता वर्षाय विज्ञेया , दुर्भिक्षाय सिता भवेत् ।।१।। उत्पातेनेति किम् ? राज्ञ इदं छत्रमायान्तं विद्धि राजानम् ॥५९।।
श्लाघ-गु-स्था-शपा प्रयोज्ये ।२।२।६०॥ श्लाघादिभिर्धातुभिर्युक्ताद् ज्ञाप्ये प्रयोज्ये वर्तमानाचतुर्थी स्यात्। मैत्राय श्लाघते , हुते , तिष्ठते , शपते वा । प्रयोज्य इति किम् ? मैत्रायाऽऽत्मानं श्लाघते , आत्मनो मा भूत् ॥६०॥
तुमोऽर्थे भाववचनात् ।।२।६१॥ क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते , तस्यार्थे ये भाववाचिनो घञादयस्तदन्तात् स्वार्थे चतुर्थी स्यात् । पाकाय इज्यायै वा व्रजति । तुमोऽर्थ इति किम् ? पाकस्य । भाववचनादिति किम् ? पक्ष्यतीति पाचकस्य व्रज्या ॥६१।।
गम्यस्याऽऽप्ये ।२।२।६२॥ यस्यार्थो गम्यते न चासौ प्रयुज्यते स गम्य: , गम्यस्य तुमो व्याप्ये वर्त्तमानाच्चतुर्थी स्यात् । एधेभ्य: फलेभ्यो वा व्रजति । गम्यस्येति किम् ? एधानाहर्तुं याति ॥६२॥
गतेर्नवाऽनाप्ते ।२।२।६३॥ गतिः पादविहरणम् , तस्या आप्येऽनाप्ते वर्तमानाच्चतुर्थी वा स्यात् । ग्राम ग्रामाय वा याति , विप्रनष्टः पन्थानं पथे वा याति । गतेरिति किम् ? स्त्रियं गच्छति , मनसा मेरुं गच्छति । अनाप्त इति किम् ? संप्राप्ते मा भूत्- पन्थानं याति ॥६३॥
मन्यस्याऽनावादिभ्योऽतिकुत्सने ।२।२।६४॥ अतीव कुत्स्यते येन तदतिकुत्सनम् , तस्मिन् मन्यतेप्प्ये वर्तमानान्नावादिवर्जा चतुर्थी वा स्यात् । न त्वा तृणाय तृणं वा मन्ये । मन्यस्येति किम् ? न त्वा १. पा१ J3 विना 'वाताय कपिला विद्युत् एतावानेव पाठ: , न संपूर्ण: श्लोकः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org