Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru
Catalog link: https://jainqq.org/explore/034169/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ संवत १९९३ संग्राहकः याम्भोनिधिः पूज्यपादः श्रीमद्विजयानन्दसूरिशिष्यरत्न श्रीहीरविजयशिष्य-पंन्यास सुंदरविजयशिष्य-सौभाग्यविजयसूरिमुख्यशिष्यमुनिगौतमविजयसदुपदेशात् 版 5 श्री वीतरागाय नमः श्री आरामनन्दन कथा f 145 प्रकाशकः - श्री बोरुग्रामस्थ श्रीजैनसंवः अमूल्य भेट. मुद्रक:- शा. गुलाबचंद लल्लुभाइ, श्री महोदय प्रीन्टींग प्रेस, दाणापीठ-भावनगर. प्रत ५०० 節 Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथाय नमः। परमपूज्य मुनिमहाराजश्री कनकविजयजी महाराजनुं टुंक जीवन वृत्तांत आ जगतमां अनेक आत्माओ जन्मे छे अने मरे छे तेमां कांइ नवाइ नथी अने ते आत्माओने जगत याद पण करतुं नथी. किन्तु मानवोमां पण केटलाक एवा विशिष्ट कोटीना आत्माओ होय छे के जेना नाम शेष थया बाट पण आ जगत चिरकाल सुधी संभारे छे. ते पण तेओना पुन्यने अने तेमा रहेला अद्भूत गुणोनेज आभारी छे. खरेखर ते आत्माओज आ अणमोल मानव जीवनने सफल बनावे छे. तेवा गुणी जीवो सदृश आ पण एक आदर्श महात्मा हता. ते पूज्य पुरुषनो जन्मकाल संवत १९०८ना भादरवा शुदि १ ने दिवसे.मदेशाणा पत्तनमां थयो हतो. तेओर्नु छबीलदास एव॒ नाम राख्यु हतु, त्यार बाद युवान वय थतां २० वर्ष लगभग मुंबइ जेवा शहेरमा यो उद्योग करतां पूज्य मुनि महाराज श्री देवविजयजी महाराजनो समागम थतां तेओश्रीनी वैराग्यवाहीनि देशना श्रवण करतां तेमने वैराग्य थयो. अमदावाद आव्या अने त्यार बाद संवत १९४३ ना कारतक वदी ६ ने दिवसे श्रीमद् भागवती प्रव्रज्या अंगीकार करी अने तेस्रोश्रीन 'कनकविजयजी' एवं नाम राखवामां आव्यु. त्यारबाद गुरुजीना साथे केटलोक समय विचर्या बाद गुरुजी काळधर्म पाम्या त्यारबाद पण वर्षो सुधी गुर्जर-सौराष्ट्र-कच्छ, मरुधर, मालवा इत्यादि अनेक देशोमां विचरी अनेक भव्यात्माओने सदुपदेश द्वारा प्रतिबोध करी धर्ममार्गे जोड्या हता तेवीज रीते मने पण ते पूज्य Page #4 -------------------------------------------------------------------------- ________________ पुरुषना समागमथी वीतराग प्रणीत सुधर्मनी प्राप्ती थइ छे तेथी हुं पण ते पूज्य पूरुषनो सदाने माटे ऋणी छु अने तेओश्रीना | अद्भूत गुणोथी प्रेराइने तेओश्रीजें आ टुंक जीवन आलेखवा प्रयत्नशील थयो छु. - यद्यपि तेओनी अंदर क्षात्यादि अनेक गुणो हता तथापि तेओश्रीमां मार्दवतानो अद्भूत गुण हतो, संपूर्णपणे ते पूज्य पुरुषर्नु जीवन वृत्तांत हुं लखवा असमर्थ छु माटे यथामति जीवन वृत्तांत लखी विर# कुं. ली. __ पूज्य मुनिमहाराजश्री १००८ कनकविजयजी महाराजनो अंतेवासी गौतमविजय धन्यवाद. आ आरामनंदननी कथा तथा दुहा संग्रह छपाववामां बोरुगामना महाजन तरफथी तथा सालडी गामना महाजन तरफथी तथा वेडा गामना महाजन तरफथी तथा गाम सालडी वाळा शा. जेचंद मगनलाल तरफथी आर्थिक सहाय मळवाथी ते सर्वने धन्यवाद आपवामां आवे छे. Page #5 -------------------------------------------------------------------------- ________________ wink...... ॥ श्री गौतमगणधराय नमः ।। ॥ श्री सम्यक्त्वशुद्धिविषये आरामनंदनकथा ॥ इहैव जम्बूद्वीपाख्ये, द्वीपेऽर्धशशिसत्रिभम् । अस्ति धीभरतक्षेत्रं, भालवभूमृगीदृशः॥१॥ तत्र लक्ष्म्या व क्रीडागारं लक्ष्मीपुरं पुरम् । यत्रान्तर्बहिरु:षु, पुन्नागाः सन्ति सत्फलाः ॥२॥ तत्रासीत् त्रासिताराति-विक्रमो विक्रमो नृपः । यत्प्रताजितोऽधापि, सविता सेवते नमः ॥३॥ तस्य प्रसादप्रासाद-निर्विवादनिवासिनः, चत्वारः सोदरा आस-नुपाया इव नैगमाः ॥४॥ आद्यो विमलबुद्ध्याह्वो, द्वितीयो बुद्धिसागरः, तार्तीयीकः सुबुद्धिस्तु, तुर्यो विशालबुद्धिकः ।।५।। विशालबुद्धिनाम्नस्तु, स्वप्राणेभ्योऽप्यतिप्रिया, वस्त्रतर्जितपद्मश्री, पद्मश्रीरजनि प्रिया ॥६।। साऽन्येद्युज्येष्ठपत्नीनां, सुतानां प्रतिवत्सरम् , वीक्ष्य जन्मविवाहादि । महानेवमचिन्तयत् ॥७॥ एतास्वमधन्गास्मि, यस्या नैकोऽपि नन्दनः। येन मे मन्दभाग्यायाः, पूर्यन्ते हि मनोरथाः॥८॥ अतस्तनूभवाभाव-यमानमनाः सदा, गृहोपचनिकां गत्वा, पद्मश्रीररुदत्तराम् ॥९॥ सुदतीं रुदतीमेत्य, कदाचित् कापि वानरी । नदुःखदुःखितेवाख्यत् किमर्थ सखि ! रोदिषि ? ॥१०॥ पद्मश्रीरपि तां स्माह, सखीन्दुप्रतिमामिव । वन्ध्यामिधः कलको मां, सकलामपि बाधते ॥ ११॥ ततः सञ्जातकारुण्या, महारण्यात् महौषधीम् । आनीय वानरी तस्यै, वितीर्यैवमवोचत ॥१२॥ सख्यमूष्यां महौषध्या-मावस्तानवासरे। नीरेण पिष्ट्वा पीतायां, भावी ते गर्भसम्भवः Page #6 -------------------------------------------------------------------------- ________________ सम्यक्त्व आरामनंदनकथा । विपये ॥१३॥ पद्मश्रीः साह पुत्रो मे, यदि भावी त्वदौषधात् । तदा तुभ्यं प्रदास्यामि, हारं नवसरं सखि! ॥१४॥ कथं नरगिरा वक्षीत्युक्ता पश्रियाऽथ सा । वानरी स्माह वानर्या, विद्ययैवानवद्यया ॥१५।। अथैत्य सम पद्मश्रीः, सानन्दा स्नानवासरे। औषधीमपिवद्धारा-सुधामिद सुधाशनी ॥१६॥ तत्प्रभावभवद्गर्भा, सम्पूर्णेषु दिनेषु सा । सुषुवे वानरं दुःखाद-हो । विधिविजृम्भितम् ।।१७।। प्ता सूतिकारिकावक्त्रा-च्छ्रुत्वा शाखामृगं सुतम् । दुःखेन मूञ्छिता भूम्यां, पपात च्छिन्नवाल्लिवत् ॥१८॥ शीतोपचारात्सञ्जात-संज्ञाहोदैववादिनी । साऽत्याजयगृहारामे, मलवत् तं लवङ्गमम् ॥ १९ ॥ ततः सा वानरी जात-मात्रमादाय तं कपिम् । स्माह मे गूढगर्भायाः, समभत् प्रसवोऽधुना ॥२०॥ स्तन्यं न साम्प्रतं तादृग्, क्षीयते दद्दि(द्वि)ना त्वयम् । इत्युक्त्वा च वयस्थाभिः, शिशुं स्तन्यमपाययत् ॥२१॥ युगम् ।। तत्रैव भवनारामे, पुनरागत्य सा कपी । रुदती करुणं दृष्ट्वा, पद्माश्रियमभाषत ।। २२ ।। मा रुदः सखि! मद्वार्ता, शृणु वार्थ मयैव हि । वन्ध्ययातनः सूनु-रुदपाद्यत स त्वयि ॥२३॥ साम्प्रतं मूलिकामन्यां, नरनन्दनदायेनीम् । आदत्स्वात्र न कर्त्तव्यः, संशयोर्हगिरीव हि ॥ २४ ॥ पुनस्तद्वाचि विश्वस्ता, प्रशस्ता हि वणिप्रिया । पूर्ववन् मूलिकापाना-दस्त सुतमु मम् ।।२५।। विशालबुद्धिरानन्दा-दतुच्छोत्सवपूर्वकम् । आरामनन्दन इति, बालकस्याभिधां व्यधात् ।।२६।। क्रमेण पाल्यम्मनःस, धात्रीभिवृद्धिमासदत् । सिच्यमानोऽम्भसाराम-मालिकाभिरिवांघ्रिपः ॥ २७ ।। उपाध्यायादधीतानगं, कलानां स्पर्द्धगा किल । स यौवनश्रियाऽश्रायि, राजहंस्येव मानसम् ॥२८॥ पितृभ्यां कारितातुच्छ-महोत्सवपुरस्सरम् । कन्यां पद्मावती पर्य-णयत् स धरणेन्द्रवत् ।।२९।। आरामसूस्तया सार्द्ध, भुञ्जन् भोगानभङ्गुरान् । समयं व्यतिचक्राम, यथा शच्या शचीवरः ॥३०॥ सुस्वामिनेव मधुना, नन्दितां सकलां प्रजाम् । अथ व्यथ BRECER Page #7 -------------------------------------------------------------------------- ________________ यितुं प्राप्तो, भीष्मो ग्रीष्मः कुमन्त्रिवत् ॥३१॥ तस्मिन्नवसरे सूरे, ललाटंतपताङ्गते । नमदाजलकेल्यर्थ, वनस्रः सप्रियो ययौ ||३२|| तयोः कुर्वाणयोर्वारि-क्रीडां पद्मावती ततः । तरत्सरिजलेऽपश्य-द्धंसवत्पुष्पकञ्चुकम् ||३३|| ऊचे च नाथ ! पश्येदं, वासयन्नर्मदाजलम् । कथं स्रोतोऽन्तरे याति ?, प्रसूनमयकञ्चुकम् ||३४|| तदिदं मम जीवेश ! समानीय समार्पय । एतस्य परिधानायो- त्कण्ठितं वर्त्तते मनः ||३५|| प्रियेऽगाधे जले गच्छत् एतदादीयते कथम् । इत्युक्ता नेन सा स्माह, तर्हि स्तान्मे गतिर्मृतिः ।। ३६ ।। बालानामबलानां च, दुर्निवार्यः कदाग्रहः । ति ध्यात्वा जिघृक्षुस्तत्, तरणीमारुरोह सः ॥३७॥ यथायथा ययावस्य, पृष्टे श्रेष्टितनूद्भवः। तथा तथा पुरः पुष्प-कञ्चुकोऽपि स्म गच्छति ॥ ३८ ॥ स्पर्द्धयेव तयोरेवं, गच्छतोरभवन्निशा । तदा स कञ्नुकोsप्यस्थाज्जातश्रम इव क्षणम् ॥ ३९ ॥ यावदारामस्तस्याऽऽदाने प्रासारयत् करम् । तावत् तत्कञ्चुकशिराः, काचीत् स्त्री निरगाञ्जलात् ॥४०॥ अहो !! कथमसौ योषिद् अकस्मात् प्रकटाऽभवत् । इति ध्यायन् क्षणं तस्थौ, विस्मितो वननन्दनः ॥४१॥ पश्यामि कौतुकं तावद् एषा योषा क्व यात्यतः । विमुच्य नाविकं नावं, तत्पृष्ठेऽथ चचाल सः ॥ ४२ ॥ साऽपि श्रीकालिकादेव्या, गृहे नद्यास्तटस्थिते । वेगाज्जगाम तां चान्व-गच्छदारामनन्दनः ॥ ४३ ॥ साऽपि तं कञ्चुकं देवीं परिधाय्य ममाऽधुना । कल्याणकारिणी भूया, इत्युक्त्वा च नमोऽकरोत् ॥ ४४ ॥ ततः स्थानाद्वि नेर्गत्य, वनिता सा क्वचिद् ययौ । देव्या निर्माल्यमित्येतत् सोऽपि कञ्चुकनाददे || ४५|| तल्लाभमुदितो यावद् - आगमत् तटिनी उम् । तावत् तत्र ददर्शासौ, न नावं नैव नाविकम् ॥ ४६ ॥ इतस्ततो ..अमन्नुच्चैः, शब्दयन् नाविकं हि सः । तत्प्रवृत्तिमजानंथ, चेतस्येवमचिन्तयत् ॥४७॥ अहो !! स दुष्टो मां मुक्त्वा, काऽपि दुर्जन गतः । अहं तु पूर्णकामोऽपि, क गच्छाम्यधुना निशि ? |४८|| ततो भयद्भुतः क्वापि, पुरबाह्यप्रपागृहे । सोऽस्वाप्सीत् तत्र Page #8 -------------------------------------------------------------------------- ________________ आराम सम्यक्त्व नंदन कथा। शुद्धिविषये च स्तेनाः, पर्यटन्तः समीयरुः॥४९॥तेष्वेकः स्माह भोः! पुष्प-सौरभ्यादनुभीयते। कोऽपि भोगी पुमान् कान्ता-युतः सुप्तोत्र वर्चते ॥ ५० ॥ तत्सञ्जीभूय. व( वृ)न्देन, गृहीत.गृहमेधिनम् । यथाद्याऽमीष्टलामेना-स्माकं स्यात् सफला निशा ॥५॥ | इत्यालोव्य प्रविश्यान्त-स्तस्करास्तमशोधयन् । धनाप्राप्त्या च तल्लात्वा, कञ्चुकंद्राग विनिर्ययुः॥५२॥ जाते दिनोदये सुप्तोत्थित उद्याननन्दनः । तज्जीवितमिवापश्यन्-महामोहमुपेयिवान् ॥५३॥ गतमूर्छस्ततो मुश्चन्-निःश्वासान् पुष्पकञ्चुकम् । अपादिकेषु:स्थानेषु, शोधयन्नपि नाप सः॥५४॥ तं विनाऽहं कथं पल्ल्या, दर्शयामि स्वमाननम् । स तु विज्ञायते गन्धात् , कल्पद्रुसुमनोमयः ॥५५।। अतः सोऽब्दशतेनापि, नातोति म्लानतां ततः। शोधयामि पुरग्रामा-रामादींस्तस्य लव्धये ॥५६॥ इत्यालोच्य स आराम-नन्दनो नन्दनोपमैः। वनैर्मण्डितमाविक्ष-द्रमानिलयपत्तनम् ॥५७॥ पश्यस्तस्य श्रियं वर्ग-सदृशीं श्रेष्ठिनन्दनः। अभ्रंलिहेऽर्हत्सदने, जिनेन्द्रान् वन्दितुं ययौ ॥५८॥ तत्र नानास्तवैर्देवान् , वन्दमानो वनात्मजः। सागरश्रेष्ठिना पूर्वा-यातेन ददृशे मुदा ॥५९॥ स देववन्दनाप्रान्ते, सागरेणेत्यभाषत । साधम्मिक ! नमस्तुभ्यं, समेहि सदने मम ॥६०॥ ततस्तेन गृहे नीत्वा, रामसूः स्नानपूर्वकम् । भोजितो भाषितश्चैवं, सुतवद् भुझ्व मच्छ्रियः॥६॥ पितुहमिवामुष्मि-न्नुषिते सागरौकसि । शीतीकतुं महीं ग्रीष्म-प्रतप्तां प्रावृडाययौ ॥६२॥ यस्यां सकन्दला भूमि-भृशं सकलुषा नदी। श्यामा जलदमाला च, समजायन्त न प्रजाः ॥ ६३ ॥ तदा पट्टगजः श्रीम-लक्ष्मीवरधरापतेः । सरोवरे पयः पीत्वा, व्यावृत्तः कर्दमेऽपतत् ॥६४॥ आधोरणैर्महामात्यैः, पोरैर्नरवरेण च । सिन्धुरो नोद्धृतः पङ्का-दुपायैर्विहितैरपि ॥६५॥पङ्कान्निष्काशयत्येनं, गजं यस्तस्य वाञ्छिना तम् । ददामीति नृपो द्रने, पटहं पट्ववीवदत् ॥६६॥ तच्छ्रुत्वा वनजोऽस्पाक्षीद , पटहं पटुधीस्ततः। उपभूपमयं निन्ये, धराधिपति AAI ||२॥ Page #9 -------------------------------------------------------------------------- ________________ पूरुषैः ।। ६७ ॥ नृपं प्रणम्य स स्माह, राजन् ! पट्टगजोद्धृतौ । सहायिनं मदादेश-करं मन्त्रिणमादिश ॥६८॥ ततः पद्यश्रियः सूनुर्नरेन्द्रादिष्टमन्त्रिणा । सत्रा तत्र ययौ रात्र, निमग्नोऽस्ति महागजः॥६९॥ आकण्ठभग्नं सीत्कारान्मुश्चन्तप्रबलानकम् । जाङ्गुलीस्तम्मितं नाग-मिव नागं ददर्श सः॥७०|| मन्त्रिणा तस्य नागस्य, शतहस्तमितां भुवम् । पक्वेष्टकाभिरभितो, बन्धयामासिवानसौ ॥ ७१ ।। धिषणागोचरं कार्य, कथं कति ? सादरम् । विदुरैक्ष्यिमाणोऽसा-वादिशन्मन्त्रिपुङ्गवम् ॥ ७२ ॥ यदमुष्य गजेन्द्रस्य, बल सम्पत्तिहेतवे । शल्लक्याद्यशनं देहि, तेनापि विदथे तथा ॥ ७३ ॥ तद्गजाध्यासितं स्थानं, सरसो वनसूस्ततः । सारणीवारिणा पूर्व, तूर्ण कारयति स्म सः ॥७४ ॥ सुधीनिर्मापितोदार-स्फारशृङ्गारसारया । करिण्या करिणं स्वीय-करेणास्पर्शयच्छनैः ॥ ७५ ॥ शल्लक्था अशनोद्भूत-बलो मदकलोऽथ सः । जलाप्लावित बाल-न्धमुक्तोऽभवद् द्रुतम् ॥ ७६ ॥ वशाङ्गस्पर्शसंजात-मरोल्लासमहोद्यमः। तां रिंसूरसौ हस्ती, समुत्तस्थौ शनैः शनैः ॥ ७७ ।। अरे निषादिनो ! नीरा-न्मन्दं कृपत हस्तिनीम् । तैरप्येवं कृते दन्ती, तां स्मरोद्रेकतोऽन्वगात् ।। ७८ । आकृष्टिविद्ययेवेत्याकृष्यमाणं मतङ्गजन् । वनजो जनयश्चित्रं, निनाय गजशालिकाम् ॥ ७९ ॥ धिषणा धिषणस्यापि, जयिन्यस्येति पूर्जनः । लक्ष्मीधरधराधीश-पुरो वनजमस्त वीत् ।।८०॥ तद्धद्धिरञ्जितो राजा, समाकार्य स्वसन्निधौ । तस्मै प्रसादं पञ्चाङ्गं, दत्वा प्रोचे वरं वृणु ॥८१॥ सागरश्रेष्ठिनं तत्रा-नाय्यकाननसूरपि । नृपं व्यजिज्ञपद् देव ! दीयतामस्य मद्वरः ॥ ८२॥ लक्ष्मीधरघरेशोऽपि, वनसूवचसा मुदा । सागरश्रेष्ठिनः श्रेष्ठि-पदं तदुचितं ददौ॥८॥ राज्ञोऽनेन पदं मां, दापितं तदमुष्य हि। अहमप्यात्मनः कन्यां, दत्वाऽस्मै स्याकिलानृणः॥८४॥ इति ध्यात्वा तथाऽभ्यर्थ्य, कन्यां यच्छन् स सागरः। जगदे वनपुत्रेण, ताताऽग्रे Page #10 -------------------------------------------------------------------------- ________________ आराम सम्यस्व नंदन कथा। विषये ॥३॥ मेऽस्ति वल्लभा ॥८५।। प्रतिपत्रः पिता त्वं मे-ऽतस्ते कन्या मम खसा । पदं दचे बसन्मार्गे, सुविचारः कथं ? पुमान् ॥८६॥ अन्यदा वार्द्धियात्रार, पोतान् प्रगुणितानसौ । विलोक्य सागरं माह, तात! वित्तं प्रयच्छ मे॥८७॥ तल्लामोऽपि त्वया ग्राबः, केवलं कौतुक मम । ततः स सागरस्तस्मै, लक्षमेकमदाद् धनम् ॥८८॥ भूरिशो वीहयश्चाष्टौ, महिष्यो मुग्धदुग्धदाः। पदार्थाः शर्कराचन्द्र-पूगनागलतादयः ।।८९॥ मुशलोदूखले यत्रा-ष्टकं बीहेश्च पिष्टये। रन्धनाय तथा स्थाल्यो, वस्तुभोगोपयोगि च ।। ९० ॥शस्त्राणि वरववाणि, भृत्या भृत्याष्टकं पृथक । अङ्गशुश्रूपिकाचार्द्ध, वृद्धा-धेका पुरन्ध्रिका ॥९१।। सप्तश्वेतपटोपेतः, पोतो भाटककर्मणा। एतानि नेनोपातानि, लक्षकद्रविणव्ययात् ।। ९२ ।। चतुर्भिः कलापकम् ॥ महेभ्यैरपरैर्यान-पात्राणि विविधैरपि। क्रयाणकैरपूर्यन्त, परतीरोपयोगिभिः ।। ९३ ।। आरामसू तु सर्वेषां, हसतां पुरवासिनाम् । समक्षं स्थापयामास, बीह्यादि निजवाहने ।। ९४ ॥ ततः सागरमागृच्छय, शुभेऽहनि वनाः । पोतमारोहदन्येऽपि, स्वं स्वं वाहनमाश्रयन् ॥९५ ॥ शुमे मुहूर्ते वाते च, वर्त्तमाने नियामकैः । कृतकोलाहलैः पंताः, समपूर्यन्त वेगतः ॥ ९६ ।। यान्त्यब्धौ यानपात्राणि, धनुर्निर्मुक्तकाण्डवत् । क्वाप्यनूपे महाद्वीपे, स्थापितानि निया कैः ॥९७॥ ततोऽवतीर्य द्वीपस्थ-कूपेभ्यो मिष्टमभ्यु ते । स्वजीवितमिवादाय, भाण्डेषु निदधुस्तराम् ॥९८।। अहंपूर्वि ज्या लोकाः, पोतानापूरयन् स्यात् । नवरं वनजन्मा तु, स्थितस्तत्र स्वगेहवत् ।।९९।। किंन संवाहयस्यात्म-पोतं शुभमतेऽधुना इति पोतवणिक्पुत्रैः,प्रोक्तोऽसौ तानभाषत ॥१०॥ मान्याद् अहं शरीरस्य, स्थाता | यूयं तु गच्छत । तैरूचे पालयिष्यामो भवन्तं सहगामिनम् ॥१.१॥ भ्रमिर्मम वपुष्येति, पोतेऽनारूढपूर्विणः । समरे कातरस्येव, तन्नाग्रे गन्तुमुत्सहे ।। १०२ ।। इतः पुरः पदमपि, गन्तुं नेशः प्रयात तत् । वलमानास्तु गच्छेयु-माँ सहादाय Page #11 -------------------------------------------------------------------------- ________________ सद्दयाः ॥ १०३ ॥ सप्रेम समुदीर्येति, विसृष्टास्तेन ते ततः । प्रस्थाय स्वस्वयातव्य-द्वीपेषु क्षेमतोऽगमन् ॥ १०४ ॥ अथारामसुतस्तत्र, महालाभं स आत्मनः । जानानो वाहनावस्तु, स्वभृत्यैरुदतारयत् ॥१०५॥ सर्वतो द्वीपमालोक्य, स्वस्मै गेहानकारयत् । भृत्यानां नातिदूरे च, सुधीदिक्षु विदिक्षु सः ॥१०६॥ दातान् स प्रेरयामास, व्रीहिपेषणहेतवे । दासीच तन्दुलान् कतुं, सैरिभीदोहनाय च ॥ १०८ ॥ रन्धनादिक्रियातस्तद्, द्वीपं ग्रामोपमामगात् । तेषां च पायसाशित्वा-नित्यं शकुनपू र्णिमा ।। १०८॥ सोऽन्यदाधिवटे सायं, भ्रान्त्वा किञ्चिद्विचिन्त्य व । दासेभ्यो वार्द्धि ( सैरुदधि) वेलायां, कोष्णां IN! रक्षामचिक्षिपत् ।। १०९॥ तद्भस्मगमाघातुं, यादास्यायान्ति यान्ति च । कण्डू स्फोटयितुं तत्र, निर्भयं विलुठन्ति च ॥१०१॥ वासितं घनसाराचैर्दधिक रकरम्भकम् । ताम्रपाने निधायैष, दत्र चास्थापयत् स्वयम् ॥ १११ ॥ ततो जलचरा घ्राण-मूर्द्धयित्वास्य सौरभम् । आघ्रातुं समुपायान्ति, कमलं भ्रमरा इव ।।११२॥ भूयो भूयः समायातो, विश्वस्तांस्तल्लिहश्च तान् । दिनैः कतिपयैरेष निर्भीकानकरोत्तराम् ॥ ११३ ।। क्रमेण स स्वकं गन्धं, साहयन् स्थालिकां करे । विभ्रच भोजयामास, करम्भं तान् सुतानिव ॥११४॥ अथ यादः पुमानेकस्तरस्वी स च लोलुपः । अन्येभ्यः पूर्व मेवैत्य, स्थाल्यां स्वकरम|क्षिपत् ॥११५॥ अस्मिन्नवसरे पाणि-नजेन प्रसारितः । तद्भावजेन तेनाऽपि, झम्पापातः कृतोऽर्णवे ॥११६ ॥ अन्यान्या यान्ति यादांसि, नास्त्यद्याशनमित्यसौ । निवा (विचा)र्य दाम्भिको रत्न करस्तत्पार्श्वमीयिवान् ॥ ११७ ।। वनसूनोः करे रत्नं, तद्दत्वा स्थालिकास्थितम् । भुव चाऽऽकण्ठं करम्मं च, सोऽस्पाक्षीदुदरं मुदा ॥ ११८ ।। तदनचं महारत्नं, निरीक्ष्य वननन्दनः । आगामुदमुपाये हि, रिद्धे कः स्यान्न हर्षमाक् ? ॥ ११९ ॥ तद्यादचेष्टितं दृष्ट्व-ऽन्येऽपि नका. महोदधेः । Page #12 -------------------------------------------------------------------------- ________________ | रत्नान्यानीय दत्वा च, तस्मायादुः करम्भकम् ॥ १२० ॥ उपायेनामुना तेना-नाय्य रत्नानि भूरिशः। आर्द्रच्छगण- आरामसम्यक्त्व-IN केष्वन्तः, क्षिप्तान्येकैकशः क्रमात् ॥१२१॥ स रत्नानामरत्नानां, छगणानां पृथक् पृथक् । राशिद्वयं स्वयं कृत्वा, रक्षति नंदनशुद्धि- | स्म सदैव सः॥१२२॥ अथासौ वनजे पुष्प-कञ्चुकादानहेतवे । उत्तीर्णे नाविको नावं, बद्ध्वास्वाप्सीनदीतटे ॥ १२३ ॥ कथा। विषये नर्मदाश्रोतसा च्छिन्न-बन्धना प्रेरिताधिकम् । सा नौः स नाविकोऽम्मोधा-वपतद्विनियोगतः॥१२४॥ सिन्धूमिहन्यमानां ता-मनूपद्वीपमागताम् । प्रसूनमिव निरीक्ष्यैष, वनजः सम्मुखं ययौ ॥ १२५ ॥ आलिङ्गय बन्धुवत् स्नेहा-दुचीर्ण नाविक ततः । आनीय वनसूर्गेहे, शाल्योदनमभोजयत् ॥ १२६ ॥ नाविकेन स्ववृत्तान्ते, कथिते वनसूरपि । रत्नाप्तिवर्ज स्वं वृत्तं, तत्पुरः प्रत्यपादयत् ॥१२७॥ अथोपार्जितवित्तास्ते, निवृत्ताः पोतनैगमाः। स्मृतसन्धास्तदैव द्राग-नूपद्वीपमैयरुः॥१२८॥ तन्त्र ते नीरमादाय, चलन्तः स्वपुरं प्रति । आह्वयन् वनजं सोऽपि, तदैव प्रगुणोऽभवत् ॥ १२९ ॥ नावि पोते च सोऽरत्नान् , सरत्नांछगणान् क्रमात् । भृत्येभ्यः स्थापयन्नेवं, तैरुक्तः किमिदं हि भो? ॥१३० ॥ सागरश्रेष्ठिनो वित्त-मुपायाभावतोऽधिकम् । अविन मया भद्र, भाग्नेयेनेव भक्षितम् ॥ १३१ ॥ त्यक्त्वाश्छगणका! छत्रोपयुज्यन्ते क्व निर्जने । अतः सहेव नीयन्ते, वनसूरित्युवाच तान् ॥ १३२ ॥ युग्मम् ।। तेऽपि स्माहुः त्यजैतांस्त्वं, गृहीत्वाऽस्मत्क्रगाणकम् । स्वपोते स्थापय क्षिप्रं, दास्यामस्तव भाटकम् ॥ १३३ ।। एवमज्ञाततत्त्वैस्तै-हसितोऽपि स्वपोतकम् । आरूढो वणिजैः सार्द्ध, सोऽचालीत् स्तपुरं प्रति ॥ १३४ ॥ व्रजनां यानपात्राणा-मर्धमार्गे भहोदधेः। दुर्दैववशतो वातो, वाति स्म प्रातिकूलिकः दा॥ १३५ ॥ तेनेरितानि तानि स्राग, भ्रश्यत्सितपटानि हा । निपेतुर्मण्डलावर्ते, कैवतैर्धारितान्यपि ॥ १३६ ॥ तत्र भ्रमत्सु IG॥४॥ Page #13 -------------------------------------------------------------------------- ________________ पोतेषु, तेषु सांयात्रिकाङ्गिनाम् । इन्धनं हि व्ययीभूतं, बहुकालव्यतिक्रमात् ॥ १३७ ॥ अत्र सांयात्रिकैस्तस्माच्छगणेष्वर्थितेषु सः । स्माह नैतानि विक्रीणे, रिक्तोऽपोतो हि मजति ॥ १३८ ॥ अपक्कान्नादनादेते, सञ्जातजठरायः । पुनस्तमवदन् स्वेन, यच्छैतानि न सोऽप्यदात् ॥ १३९ ॥ तन्मध्यान्मुखरस्त्वेकः, स्माहोऽधारेण देहि नः। चतुर्गुणान् प्रदातारो, भवते स्वपुरं गताः ॥ १४०॥ स प्रोचे यादृशान्यत्र, गण्हीध्वं च्छगणानि भोः!। तादृश्येव प्रदेयानी-त्यर्थे मे दत्तपत्रकम् ॥ १४१ ।। मुश्चतान्यच्च किश्चिन्मे, पण्यं ग्रहणके यतः। लज्जा न कार्या विज्ञेन, व्यवहारं प्रकुर्वता ॥ १४२ ॥ तथेति प्रतिपन्नेऽस्य, वाक्ये तैर्वननन्दनः । प्रतिभूसहितं पत्रं, तेभ्यो वेगादलीलिखत् ॥१४३ ।। आख्यच पोते तयाँ च, सन्ति च्छगणका हि ने । यथास्वैरमुपादत्त, सङ्ख्यालेखनपूर्वकम् ॥ १४४ ॥ आलस्याद्यानपात्रात्ते, च्छगणांल्लातुमक्षमाः। तरीतो जगृहुः सर्वा-नज्ञानां हि कुतो मतिः ॥ १४५ ॥ ज्वालयित्वाऽथ तद्रक्षा, क्षिपन्तोऽम्भसि वारिघेः । स्वात्मानं नैव जानन्ति, वश्चितं हि जडाशयाः ॥ १४६ ॥ अभविष्यन्न चेदस्य, पार्थे च्छगणराशयः । प्राणिष्यामः कथं चात्रे-त्यमुन्तेसमवर्णयन् ॥१४७॥ दैवेदैवानुकुलेना-निलेन प्रेरितास्ततः । वणिजः पूरयामासुऽ-राशु पोतान्पुरं प्रति ॥ १४८ ॥ क्रमेण यान्तस्ते निष्ठात्रापितच्छगणोत्कराः। स्वपुरोपान्तपाधोधे-स्तीरं पापुः प्रहर्षिताः ॥ १५९ ॥ केचिदुत्तीर्य पोतेभ्यः, स्वेच्छयेभ्यानवर्धयन् । ते (तत् ) सम्मुखमाजग्मुः, कारयित्वा महोत्सवम् ॥ १५० ॥ क्रयाणकानां कुटानि, चक्रुस्ते तोयधेस्तटे । बनसूश्छगणानाच, हस्खमानो घनेनेः ॥ १५१॥ सागर! त्वद्वणिपुत्र, आगाच्छगणपण्यभृत् । वध्र्यसे भो इति श्रुत्वा, नृभ्यो न स तमभ्यगात् ॥ १५२ ॥ अथेभ्याः सारवस्तूनि, लक्ष्मीधरधराभुजे । हर्षादुपायनीचक्नुः, शुल्कस्वल्पत्वहेतवे Page #14 -------------------------------------------------------------------------- ________________ सम्यक्त्व I विषये ॥१५३ ॥ भृत्यमूर्द्धनि चङ्गेरी, दत्वा च्छगणपूरिताम् । दिक्षुर्वनजोऽपीशं, गोपुराधिपमैक्षत ॥ २५४ ॥ तेनोक्तं किमिदं ? आरामसोऽपि, भसास्यामयहृत्त्विति, प्रोच्यैकं छगणं तस्मै, दत्वा मण्डपिकामगात् ।१५५।। तत्र पञ्चकुलायैष, दत्वा च्छगणपञ्चकम् ।। नंदनहसद्भिर्वेष्टितः पौर-स्थिोक्तोऽगान्नृपान्तिकम् ॥१५६॥ दृष्ट्वाऽऽयान्तं पुरायाता, इभ्या ल्यज्ञपयन्नृपम् । अहो वाणिज्यचातुर्य, कथा। | पश्यारामभुवो विभो! ।।१५७।। चङ्गेरी मोवयित्वाग्रे, धराधीशं ननाम सः। तदापितासने सिंह, इवोपविशति स च ॥१५८॥ मौक्तिकादीनि वस्तूनि, दौकितानि धनेश्वरैः । पश्यन् महीपतिदृष्टिं, छगणस्थानके न्यधात् ॥ १५८ ।। आश्चर्यामर्षवान् भूपो, रभाऐ भो ममाग्रतः । वाणेजा केन दुष्प्राप-मुपायनमिदं धृतम् ? ।। १५ ।। कृताञ्जलि प्रतिहारः, प्रोचे वनभुवाऽमुना । तर दृष्ट्वाऽस्मरद्राजा, तन्मतिं दन्तिरक्षिकाम् ॥१६१।। निरर्थकं द नेत, मनिशानीदृशो जनः । इति ध्यात्वा नृपः पाणा-वेकं छ गगमाददे ॥ १६२ ॥ तदारामसुते हृष्टे-ऽन्येषु स्मितमुखेषु च । खण्डिताच्छगणादावि-र्भूतं रत्नं नृपोऽगृहीत् ।। १६३ ।। अन्यान्यपि द्विधाकृत्य, नृरत्नं रत्नसञ्चयम् । आददानो मुदं भेजे, खेदं च हसकृजनः ॥१६४ ॥ रत्नोद्योतेऽपि सर्वत्र, भूत प्रसृते सति । सांयात्रिकजनश्चित्र-मजायत तमोमयः ॥ १६५ ॥ प्रमोदवानथो नाथो-ऽपृच्छत् तं स्वागतं तव ? । सोऽपि सा : महाराज! तदस्ति त्वत्प्रसत्तितः ॥१६६।। राजा पप्रच्छ कि सर्व-मपि पण्यं तदृशम् ? । आमेत्युक्त्वा स आरक्षा-दिभ्यःलगणमानयत् ॥ १६७ ॥ वणिजां हृदयानीव, बिभेद्य च्छगणानि सः । रत्नानि दर्शयित्वा च, नृपमेवमवोचत ।। १६८ । कृत्वा प्रसाद भूपाल-वेलाकुलमहीतलम् । सनाथीक्रियतामस-न्मनः सन्तुष्टिपुष्टये ॥१६९॥ तदुक्तिरञ्जितो राजा, सांया- 1| त्रिकजनैः सह । पट्टवाजिनमारुह्य, वेलाकूलं रयादयात् ॥ १७०॥ वनसनोर्मयादन्ये, परिम्लानाननाजनाः। यथावद् दर्शया ॥५॥ Page #15 -------------------------------------------------------------------------- ________________ SAB मासुः, स्वं सं भाण्डं भुवो विभोः॥१७१॥ पश्यन् भाण्डानि सर्वेषां, चक्षुषा क्षणवीक्षिणा। वेगादागादयं राजा, यत्रास्ते च्छगणोच्चयः॥ १७२ ॥ वनाङ्गजेन भूजानि-छगणान् प्रविदार्य तान् । कारयामास रत्नानां, सर्शि रोहणसन्निभम् ॥ १७३ ॥ अथारामभुवोद्धार-पत्रं राज्ञे प्रदर्शितम् । नृपोऽप्युवाच ते वित्त-मेतेभ्यो दापयामि किम् ? ॥१४७॥ विशालबुद्धिजोऽप्यूचे, देवते यदि मे धनम् । लभ्यं दास्यन्ति नो तर्हि, पुरा विज्ञपयाम्यहम् ॥१७५ ॥ सर्वेषां वणिजां दान-मुक्ति वनभुवोऽपि च । प्रासाददानमाधाया-गाद्राजा राजमन्दिरम् ॥ १७६ ॥ ततो वनसुतोऽनांसि, भृत्वा रत्नैरनेकशः । याचकेभ्यो ददद्दान-मागात् सागरमन्दिरम् ।। १७७॥ सागरोऽपि त्रपामन्दा-नन्दाभ्यां युगपद्वृतः। अभ्यागच्छन्नमश्च , वक्रेतरहृदाऽमुदा ॥ १७८ ॥ श्रेष्ठिना कुशलप्रश्ने, कृते स रचिताञ्जलिः । प्रोचे तात ! भवत्पुण्यक्रीताः स्वीक्रीयतां श्रियः ॥ १७९ ॥ सागरोऽपि हि तद्वाक्यं, गुरुवाक्यमिवानघम् । मेने को हि रमां रामा-मिवायान्ती निवारयेत् ? ॥१८॥ अथापरैर्वणिकपुत्रै-वृत्ते स्वे व्यवहारिणाम् । बज्रपात इव प्रोक्ते, ते चिंतासागरेऽपतन् ॥१८१॥ ततः सम्भूय सम्भूय, सर्वेऽपि | व्यवहारिणः । विमृश्य किमपि स्वान्ते, सागरागारमैयरुः ।।१८२॥ तानिभ्यानभियाति स्म, श्रेष्ठी वनसुतान्दितः । आसने | निवेश्याथापच्छच्चागमकारणम् ॥ १८३ ॥ तेऽप्यासनात् समुत्थाय, संयोज्य करपल्लवान् । भृत्या इव पुरोभूय, वनसूनोरुप - | विशन् ॥ १८४ ॥ अतिदीनगिरस्त्वेवं, प्रोचुस्तद्वारिता अपि । तद्रहस्यमजानानाच्छगणान् जगृहुर्जनाः ॥१८५ ॥ ४॥ च वारिधी क्षिप्ता, रत्नवार्चापि न श्रुता । तदैकरत्नुमूल्यं न, प्राप्नुमो वयमप्यहो । १८६ ॥ दृष्ट्वाक्षराणि पत्रस्य, विच्छायवदना वयम् । अननुज्ञाप्य तत्त्वा नो, नयामः पण्यमालये ॥१८७॥ त्रिशुध्यापि हि रत्नानां, शुद्धिश्चेत् जायते ततः। यचं Page #16 -------------------------------------------------------------------------- ________________ श्री सम्यक्त्व शुद्धि नंदनकथा। विपये EL वक्षि तमेवात्र, शपथं कुर्महेऽनघ ! ॥१८८॥ स्वरूपं छगणानां स, जाननिर्दम्भमानसः। कञ्चुकार्थी हि तल्लिप्सामुक्तः स्मित्वे त्युवाच तान् ॥१८९॥ इहो दुर्गतवद्यूय, दीनं किमिति जल्पत १ । यतोऽमीष्टा वसुम्योऽपि, तन्मा कुरुत मद्भयम् ॥१९॥ ला तद्दत्तं पत्रकं भित्त्वा, निर्भयान् प्रविधाय सः । ताम्बूलाद्यैश्च सत्कृत्य, कृत्यविद्विससर्ज तान् ॥ १९१ ॥ गुणव्यावर्णने तस्य, श्रयद्भिर्बन्दिनां पदम् । तदादेशादपानिन्ये, भाण्डं तैः स्वस्ववेश्मनि ॥१९२॥ कष्टोपार्जितवित्तानां, दानभोगैरमगुरैः। साफल्यं कुरु वत्सेति, वनजं सागरो जगौ ॥१९३॥ वनजोऽप्यब्रवीत् तात !, पुष्पकञ्चकहेत। भ्राम्यस्तनाप्नुवं बोधि-वीजं भव्येतरो यथा ॥१९॥ अध्यारोहमहं पोतं, दुःखस्यापोहहेतवे । किन्तु रत्नान्युपायो:-शादिस्वान्तमरञ्जयम् ॥१९५॥ शुभ्रीकृतं जगत्सर्व, यशस्तुहिनरश्मिना । तथाऽपि नाभृत् तत्प्राप्ति-धर्मे यत्नं करोम्यतः॥१९६॥ इति सद्वासनोल्लासा-चैत्येषु श्रीमदर्हताम्॥ अष्टाहिकामहं शक्र-इव चक्रे वनात्मजः ॥१९७।। वित्तव्ययेनामारि सो-घोषयत् सकले पुरे। अवारितं महादान-पटहं पव- 2 वीवदत् ॥ १९८॥ कारागाराद्भूरिभा (सा) रैरमोचयदयं नरान् । रोमाश्चितश्च सत्साधूनन्नाद्यैः प्रतिलाभयन् ॥ १९९ ॥! धन्योऽहं सफलं जन्म, ममेति प्रमुदं वदन् । वनजोऽपूजयत् सङ्घ, जङ्गमं कल्पशाखिनम् ॥२००॥ चैत्योद्धारं जिनानां त-द्विभ्यानां स्थापनानि च। सोत्सवं कारयन् स स्व-जन्मसाफल्यमातनोत् ।।२०।। अन्यदा यामिनीयाम-यामले वननन्दनः। शयनीये सुखं सुप्तो, ददर्श स्वप्नमीदृशम् ॥२०२॥ लक्ष्मीपुरे नर्मदाया-स्तीरे चन्दनदारुभिः । पद्मावती स्वभृत्येभ्य-श्चितां शीघ्रमचीकरत् ।। २०३ ॥ ततः सा स्नाननासूत्र्य, प्रासुकैनर्माजलैः । पूजयित्वा जिनेन्द्रांश्च, तस्या पार्श्व समीयुषी ॥२०४॥ ऊचे च दारितं जैन-र्यद्यप्यायप्रवेशनम् । तथाप्यहं वियोगार्ता, प्रवेक्ष्याम्याशुशुक्षणिम् ॥२०५॥ यतो मया दुष्टबुझ्या, कदा Page #17 -------------------------------------------------------------------------- ________________ ग्रहगृहीतया । हठान् प्रियतमः प्रैषि, पुष्पकञ्चुककाझ्या ॥ २०६॥ यदसौ नागतोऽद्यापि, तज्जानेऽस्य शुभं न हि । यतः क्षणमपि स्वामी. न जीवति स मां विना ॥ २०७॥ साध्वीमपि विना पत्या, लोका अपवदन्ति हि । सभर्तृकां पुनर्नारी, मन्यन्तेत्रामरीमिव ॥ २०८ ॥ अतो विशाम्यहं वह्नौ, दुःखिता मृत्यवेऽधुना । इत्युदीर्य स्ववर्गेभ्यः, सा चचाल चितां | प्रति ॥ २०९ ।। इति साक्षादिव प्रेक्ष्य, वनसूरुत्थितोऽवदत् । प्रिये ! मयि पुरस्ये(स्थे)ऽदः, कर्तुं युक्तं न साहसम् ला॥२१०॥ तच्छ्रुत्वा सहसा तस्यो -तस्थौ परिजनोऽपि हि। किमिदं ? किमिदं ? स्वामि-निति भ्रान्तः स्म वक्ति च ॥२११।। रे रे भृत्या यात याता-ऽऽनयतानाशु मान्त्रिकान् । इति जल्पपरे श्रेष्ठि-ना(न्या )प्तमंज्ञः स तानवक् ॥२१२॥ साध्यं कि मान्त्रिकैग्त्र, गात्रं तु पटु नेऽस्ति भोः।। यदुच्चय॑लपं तच्च, स्वप्नावेशविजृम्भितम् ॥२१३ ।। एवं स्ववर्ग सन्तोष्य, सोऽध्यायदधुना मम । प्रसूनकञ्चुकादान-तृष्णापि दिलयं गता ।।२१४॥ यतः प्रिया वियोगान्मे, चितारूढा भविष्यति । न स्यादतर्कितस्वप्न-दर्शनं हि क्वचिन्मृषा ॥२१५॥ अतोऽहं दयिताहत्या-पारकी क्वापि पर्वते । गृहीत्वाऽनशनं प्राणा-न्मुश्चेय दुर्जनानिव ॥ २१६॥ इनि सञ्चित्य चित्तेऽसौ, सागरमुत्कलाप्य च । गतोऽद्रिं तदधो भूमि-भागे योगिनमैक्षत ॥२१७॥ आरामसूस्तदभ्यर्ण, ययौ सोऽपि हि योगिराट् । सर्वलक्षणपूर्णोऽय-मिति तत्संमुखं ययौ ॥२१८॥ मुश्चन्नश्रुणि सान्द्राणि, स्नेहादिव जगाद च । भद्र ! त्वमत्रमद्भाग्यैः, समाकृष्ट इवागमः ॥ २१९ ॥ सिद्धक्षेत्रेत्र मन्त्रस्य, पूर्वसेवा मया कृता । सत्त्वाधिकनराप्राप्ल्या, नारब्धोत्तरसेविका ॥ २२० । अतः पुरुषरत्न! त्वां, याचे याचकवत्सलम् । मम साधयतो विद्या, साहाय्याय यतस्व भोः ! ॥ २२१ ।। इति तेनार्थितो दध्यौ, स स्वान्ते योगिनोऽस्य हि । विद्यां साधयतो भूत-वेतालादिसमुद्भवम् Page #18 -------------------------------------------------------------------------- ________________ . श्री सम्यक्त्व आरागनंदनकथा। शुद्धि विषये ॥७॥ का ॥ २२२ ॥ विघ्नादिरक्षतोऽवश्यं, मम मृत्युमनोरथः । अनायासेन भविता, परिपूणों न संशयः ।। २२३ ।। युग्मम् ॥ इति | सञ्चित्य तद्वाक्ये, वनजेन प्रतिश्रुते । योगी हर्षपयोराशि-कृतस्नान इवाभवत् ॥ २२४ ॥ आदिदेश च भूतो वा, प्रेतो वा राक्षसोऽथवा । मन्त्रविघ्नकृदागच्छंस्त्वया वार्योऽत्र साचिके ॥ २२५ ।। ततः स होमप्रायोग्य-वस्तून्यानाय्य वेगतः । खदिराङ्गारसम्पूर्ण, कुण्डमुण्डमकारयत् ॥२२६॥ तत्र मण्डलमापूर्य, तं कृत्वोत्तर साधकम् । स्मारं सारं तथा मन्त्र-माहुतीयोग्यदान्मुदा ॥ २२७॥ क्षुब्धाया मन्त्रदेव्याः प्राग, भूतवेतालराक्षसाः । अट्टाहासं कुर्वन्तः, प्रादुरासन् दिशो दिशः॥ २२८ ॥ तेष्वेकः । सहजोत्तालो, वेतालो वननन्दनम् । उपेत्याख्यदरे दुष्ट !!, दृष्टोऽसि क नु यास्यसि ।।२२९॥ एरं कुरु करे शस्त्र-मभीष्टं वा स्मरामरम् । मम क्रोधानले भस्मी-भावं प्राप्स्यसि निश्चितम् ।। २३० । इति तेनोक्त आराम-पुतस्तं प्रत्यधावत । वैतालघातमास्खल्य, तदङ्गे प्रविवेश व ॥२३१।। तेनोदर्मुष्टिधातै-राहत्याहत्य मर्मणि । पातितो भुवि वेतालः, सिद्धस्तेऽस्मीति तं जगौ ।। २३२ ॥ तन्मुक्तस्तमथो नत्वा, स वेतालो व्यजिज्ञपत् । दासस्तेऽस्मि गुणक्रीतो, वद तत्कि करोम्यहम् ? ॥२३३।। वनजः माह वेताल!, यदा त्वां संस्मराम्यहम् । तवागत्य त्वया कार्य, साहाय्यं मम निश्चितम् ।। २३४ ॥ तथेति प्रतिपद्यायं, नत्वाऽदृश्योऽभवत्पुनः । तमेत्याप्त इव क्षिप्रे, रहस्येवमवोचत ।। २३५ ॥ पापिनो योगिनो वाचा, यदि भ्रान्ता हुताशनम् । तदा स्वसिद्धये क्षेप्ता, वामनौ दाम्भिकः स हि ॥ २३६ ॥ एवमुक्त्वा च नत्वा च, वेतालः स्वालयं ययौ । साहसी साधकोपान्ते, वनसूरपि तस्थिवान् ।। २३७ ।। अथागाद्योगिनाऽऽकृष्टा, मन्त्राधिष्ठातृदेवता । ऊचे चातःपरं किं ते, कुर्वे ? योगिन् ! समादिश ।। २३८ ।। योग्यपि स्माह हे ! देवि, साध्यः सौवर्णपूरुषः । यः कुण्डाग्नी प्रवेष्टाऽत्र, स भावी काश्चनः पुमान् ! Page #19 -------------------------------------------------------------------------- ________________ ॥ २३९ ॥ इत्युक्त्वाज्यच्छटां क्षिप्त्वा वह्नौ देवी ययौ ततः । शिखां वनभुवो मूर्ध्नि, प्रबबन्ध स चोग्यपि ॥ २४० ॥ युग्मम् ॥ चर्चयामास तस्याङ्गं, रक्तचन्दनजैर्द्रवैः । कण्ठेऽक्षैप्सीत् तथा रक्त-करवीरस्य मालिकाम् || २४१|| भद्राग्निं परितो भ्राप्येत्याख्यच्चारामनन्दनम् | त्वत्प्रभावाद् यथा विद्या मम सिध्यति साविक ! || २४२|| ततो चनसुतः स्वान्ते, वेतालवचसः स्मरन् । परमेष्ठिनमस्कारं, चाभ्रमत् परितोऽनलम् ॥ २४३ ॥ तं जिघृक्षुश्छलात्पृष्ट-विलग्नो योग्यपि भ्रमन् । कथञ्चिदग्निकुष्टान्तः, समुत्पाट्याक्षिपत् कुधीः ॥ २४४ ॥ उत्प्लुत्य वह्नितो देह - लाघवाद्वननन्दनः । दोर्भ्यां योगिनमादायाग्निकुण्डान्तरपातयत् ।। २४५ ।। तत्र दग्धवपुर्योगी, जातः स्वर्णपुमांश्च तम् । वनभूस्त्वस्पृहो भूमौ निखाय पुरतोऽच || २४६ ॥ याम्यां दिश्यथ गच्छन् स, योगिनीनां प्रजल्पितम् । इत्यश्रौपीद्धलास्तत्र, विलम्बो वः किमत्यभूत् ॥ २४७ ॥ ता अपि स्वामिनीं नत्वा, प्रोचुर्भीता इव क्षणम् । अत्र नो विकथाश्राव - चापल्यमपराध्यति ॥ २४८ ॥ योगिनीः स्वामिनी स्माह, काश्च ता विकथाः श्रुताः । ताः प्रोचुः श्रूयतां कृत्वा, प्रसादं परमेश्वरि ! || २४९ ॥ मानदण्ड इव क्षोण्या, वैताढ्यो भरते गिरिः । तत्रास्ति दक्षिणश्रेण्यां, नगरी मङ्गलावती ॥ २५० ॥ विद्युन्माल्यभिधस्तत्र, खेचरेन्द्रोऽन्यदा तु सः । अष्टापदगिरिं गच्छन्, सम्प्राप्तो ह्रीपुरं पुरम् ।। २५१ ।। तत्रारामे सखीयुक्तां, जलक्रीडां वितन्वतीम् । महेन्द्रनृपतेर्भार्यां सोऽद्राक्षीद् रतिसुन्दरीम् ॥ २५२ ॥ स्वैरचेष्टितमेतस्याः, कुर्वे प्राघूर्णकं दृशोः । इति शाखिशिखायां स, विद्याभृन्निभृतं स्थितः ।। २५३ ।। साऽथ राजप्रिया प्रोचे; क्षेमङ्करि ! मम प्रियः । कुतोऽपि कञ्चुकं पौष्ट्यं दुरापं प्राप्तवान्नवा १ ।। २५४ ॥ ततः क्षेमङ्करी स्माह, देवि ! त्वद्भाग्ययोगतः । कञ्चुकं त्वत्प्रियः प्राप, पद्मेश इव कौस्तुभम् ।। २५५ ॥ सा स्माह तत्कथं प्राप्तं १, वदेति मम कौतुकम् । सख्यूचे Page #20 -------------------------------------------------------------------------- ________________ सम्यक्त्वशुद्धिविषये आराम नंदनकथा। ॥८॥ विदधुचौरा-ौर्य त्वत्पुण्यतः पुरे ॥२५६॥ ते बद्धा नगरारक्ष-रानीता उपभूमिपम् । नागरा अपि तान् दृष्ट्वा, नृपायेदं व्यजिझपन् ॥२५७।। एतैरेव हि राजेन्द्र , लुट्यन्ते प्रत्यहं गृहाः । अतः सम्भाव्यतेऽसीषां, गेहेवस्मद्धनादिकम् ॥२५८॥ तद्वेश्मभ्योऽथ सर्वस्व-मानाय्य न्यायवानृपः। यद्यस्य वस्तु तत्तस्या-दादा धर्मोऽयमेव हि ॥२५९ ॥ ततो लोभात्पुरारक्ष-धौरवेश्मानि शोधयन् । अवाप कञ्चुकं देवि !, गन्धप्रीणितनासिकम् ॥ २६० ॥ स तदानीय भूपाय, ददौ तेनाऽपि वीक्ष्य तत् । आनन्दितहृदा तुभ्यं, प्रैषि प्रेमेव मृर्तिमत् ॥ २६१॥ अननःपुरपुरन्ध्रीणां, पश्यन्तीनामपि प्रियः । यन्मे प्रैषीतदित्येषा, स्वोत्कर्षान्न ममौ तनौ ॥२६२॥ तामादिक्षच हे हजे, तदानीय ममार्पय । परिधाय ययास्थाने, भर्तुरर्द्धासनं श्रये ॥२६३॥ क्षेमङ्करी तमादाय, यावदायाति गेहतः । तावत्तद्धस्ततोऽहार्षीत् , कञ्चुकं स खगेश्वरः ॥२६४॥ दृष्ट्वा स प्रमना जज्ञे, यहत्त्वैतन्निजप्रियाम् । रुष्टां सन्तोषयिष्यामि, करिष्ये च वशंवदाम् ॥ २६५ ॥ इति सञ्चिन्त्य विद्याभृ-द्गत्वा वेश्मनि कञ्चकम् । यावद्दित्सुरभूत्पत्न्यै, तावत्तस्यापरा प्रिया ॥ २६६ ।। ज्ञात्वा कञ्चुकमानीतं, दास्या व्यज्ञपयत्प्रियम् । प्रवक्ष्याभि चिता नूनं, नैनं चेन्मेऽर्पयिष्यसि ॥२६७|| प्रियायाः प्रार्थनामेना, श्रुत्वा विद्याधराधिपः । भग्नपोत इवापप्तत् , द्वापरक्षारवारिधौ ॥२६८॥ परस्परं जिघृक्षू द्वे, सपल्यो पुष्पकञ्चकम् । वार्यमाणे प्रियेणान्यै-रपि नो तस्थतुस्तराम् ॥ २६९ ॥ न भोजनं न शयनं, कुर्वाणे तद्हेच्छया : विद्याधरः प्रिये दीक्ष्य, चिन्ताचिंत्तो व्यचिन्तयत् ॥ २७० ॥ दास्ये कञ्चुकमेकस्यै, तदाऽन्याऽसून् विमोक्ष्यति । अयश्च मत्कृतोऽनों, भावी दुर्यशसा सह ॥ २७१ ॥ तदहं क्वापि मुक्वैनं, यामीति कृतनिश्चयः । १ हजे इत्यव्ययं चेट्या आह्वाने, हण्डेहलेहलाः ॥२४८॥ इति अभिधानचिन्तामणिः २ चिन्ताचान्तः प्र. Page #21 -------------------------------------------------------------------------- ________________ खेचरेन्द्रोऽष्टापदाद्रौ, ययौ देवान् विवन्दिषुः || २७२ ॥ वृत्तान्तमेतत् शृण्वन्त्यः, स्थितास्तत्र वयं चिरम् । प्रसीदातोऽपराधे नः, क्षमस्व परमेश्वरि ! ॥ २७३ ॥ इति तद्वाक्यमाकर्ण्य वनसूनुरचिन्तयत् । स कञ्चुकोऽस्ति मेऽद्यापि वैताढ्यै किन्तु दुर्लभः ।। २७४ ।। यत्कृते कञ्चुकादानं, क्रियते सा प्रिया मृता । ताम्प्रतं कृतं कान्ता - धातपातकिनाऽमुना || २७५ ।। अतो व्यावृत्य निश्येव, यामि यत्र स योगिराट् । मयाऽय पातितस्तत्र, विशाम्यहमपि द्रुतम् || २७६ || ततस्तत्पार्श्वमागत्य, स्मृत्वा पञ्चनमस्कृतिम् । आलोच्य पापस्थानानि, क्षमयित्वाऽसुमद्गण [ ॥ २७७ ॥ पुण्यानुमोदी यावत्स, प्रवेश वनजोऽनलम् । तावत्तदग्रतो लेखः, पपात सविधद्रुमात् || २७८|| युग्मम् ॥ तं लेखं समुपादाय, पाणिनोन्मुद्य च क्षणात् । साथरीचेदा आराम-तनुभृरित्यवाचयत् ॥ २७९ ॥ स्वस्तिलक्ष्मीपुरात् श्रीमन् श्रीविक्रमनरेश्वरः । क्वापि स्थाने यथानाम्नि " ग्रीत्यालिङ्गय वनात्मजम् ॥ २८० ॥ समादिशति ते कान्ता त्वद्विगाद्भुताशने । प्रविशन्ती मयाऽवार्य - वधीकृत्याष्टवःसरीम् " ।। २८१ ॥ अतो लघु त्वयैतव्यं मया च तव शुद्धये । सर्वत्र प्र हेताः सन्ति शुकशाखामृगादयः ॥ २८२ ॥ तत्करे प्रतिलेखस्तु, प्रेष्योऽस्मत्तुष्टिपुष्टये । इत्यर्थमधिगत्यासौ, पुनरेवमचिन्तयत् ।। २८३ ।। अहो !! परोपकाराय, मतां धीयन्मम प्रिया । वहाँ विशन्ती भूपेन, रक्षिता जीवितोऽस्मि च ॥ २८४ ॥ स्वप्नोऽपि सूनृतः सोऽभूद्, यो दृष्टः श्रेष्ठमन्दिरे । तन्मन्ये दर्शितोऽभीष्ट-देव्या मे सुप्रसन्नया ॥ २८५ ॥ कथं व्योम्नोऽपतल्लेख, इति वृक्षं दृशा स्पृशन् । शाखामृगं ददर्शासौ, सोऽपि तं प्रणनाम च ॥ २८६॥ तमा लिङ्गय मुदा तेना- विन्त्यद्यापि च यत्प्रिया । ममापि कञ्चुकस्याऽपि, प्रवृत्तिर्देवयोगतः ||२८७|| गद्यानीयाधुना पत्न्यै, कञ्चुकं न ददाम्यहम् । तदा तस्या भृशं मृत्युर्भविष्यति ममापि च ॥ २८८ ॥ अतो नृपाय कौशल्य Page #22 -------------------------------------------------------------------------- ________________ सम्यक्त्वशुद्धि आरामनंदनकथा। विषये पिशुनं पत्रकं लघु । लिखित्वा वल्लिनिर्यापैः, क्रीडाहरिकरऽपये ॥ २८९ ॥ यथा तद्दर्शनाद्राजा, मृत्युतस्तां निषेधयेत् । तथा कृत्वा स तं प्रैपीत् , कञ्चुकायाचलत्स्वयम् ॥२९०|| व्यन्तरान् वानरीभ्य, क्रीडतः काननेऽन्यदा । दृष्ट्वा तेषां तु कापय - चापलं स विसिष्मिये ॥२९१।। एकः कालमुखामिख्य-म्नेषु गजपदं श्रितः । सामन्तामात्यपादात-पदस्थैर्वानरैर्वृतः।।२२२॥ द्वारपालं प्रमादिक्षद् , अरे ! सनकृतः स्वयम । रन्या कारय दादा केकिनः कीलिकादिनान ।। २९३ ।। युग्मम् । नर्थव कारयित्वाऽयौ, व्योमगं कीलियावशात । दारुवा गणं दाम्प, कपीन्द्राय न्यवेदयन् ॥ २९॥ अथ प्रयाणहकांग, ताडयित्वा म्नवर्गयुक । नेवारूदः कालमुखो-चालीतुमरीन हरीन ||२९५।। अश्ववागनिय व्योम्नि, वानरान् केकिवाहनान् । आरामनन्दनः पाद-चारेणानुचचार नान् ।। २९६ ।। कपयोऽपि वनं प्राप्य, कीलिकाकेकिनो स्यात् । उत्ती। बादयामासुः, काहलाः कातरार्तिदाः ॥२९७।। एकान्ते दिनो मुक्त्वा, चेलश्चारिहरीन प्रान । प्रतिधाराश्च दान दृष्ट्वा, चुक्षुभु- युनाऽब्धिवत् ।। २९८ ॥ केपि नेशुने केपि, विविशुर्गिरिगह्वरम् । केऽप्यसीन् द्रष्टुमायाता, वलिताश्च भयातुराः ।।२९९।।। स्तेशं नीलमुखं चोचुर्देवाद्यैव बलान्विताः। पतामे रातिघाताय, नान्यथा विजयो हि नः ॥ ३०० ।। ततो नीलमुखः स्माहा-न्तःपुरं क्वापि भूधरे । मुक्त्वा कृत्वा च पूरक्षा, जेतुं यामो रिपोबलम् ॥३०१॥ तथैवासूच्य सर्वाभि-सारसारः स । निर्ययौ । ततः शिबिरयोजज्ञे, नामग्राहं महारणः ॥ ३०२ ।। युध्यमानाः कपिभटा, दन्तादन्ति नखानखि । केपि पेतुर्मही-1 पीठे, कुठारच्छिन्नवृक्षवत् ॥३०३॥ केचित् स्ववीर्यपेटाभि-अण्टाभिः क्रुधोद्धराः। आहत्याहृत्य वक्त्राणि, नीरदानि विनिर ॥ ३०४ ।। केचनापि शिलागोल--वर्षन्तो दुष्ट मेघवत् । अन्योऽन्यम्य शरीराशि, चर्णयांचक्रिरेतराम ॥३०५॥ एवं समय ॥९ ॥ Page #23 -------------------------------------------------------------------------- ________________ रम्भ, तन्वन्तः कपयो मिथः । काकनाशं भृशं नेशुः, स्थैर्य हि स्यात् क्व तादृशाम् ? ।। ३०६ ॥ अथोद्भटान्भटान् खान् खान , नष्टानालोक्य तौ रुपा । अन्योन्यकालनीलास्यौ, चक्रतुदारुणं रणम् ।।३०७॥ निर्जितो नीलवक्त्रेण, कालवक्त्रः कपीश्वरः । ननाश प्रतिकूले हि, विधौ कस्य भवेजयः ? ॥ ३०८ ॥ इतश्चारामजन्माऽपि, जग्मिवांस्तत्र यत्र तैः । कपिभिः स्थापिता आसन्न-भोगाः काष्ठकेकिनः ॥३०९।। तेष्वेकं केकिन वेगा-दारुह्याऽऽरामनन्दनः । कीलिकाममविन् प्राप, वैताट्ये मङ्गलावतीम् ॥ ३१० ।। कुतोऽपि विद्युन्माल्योक-स्तुर्यावनि गवाक्षके । स्वर्णतल्पस्थितं पुष्प-कञ्चुकं ह्यवगत्य सः ।।३११।। आदाय च ततो राज-कुलाध्यक्षमदोऽवदत् । हहो वनभुवा स्वीय, एवायं नीयतेऽधुना ॥ ३१२ ॥ युग्मम् ।। एवमुच्चैःस्वरं वारं, वारं जल्पन् पुरादहिः । विनिर्गत्य स वानेयः, प्रतस्थे स्वपुरं प्रति ।।३१३।। कश्चित् पुमान् गृहेऽभ्येत्य, गृहीत्वा पुष्पकञ्चुकम् । मयूरवाहनारूढो, हहा याति विहायसि ॥३१४॥ इत्याकर्ण्य तडिन्मालि-प्रिये सुप्रियकञ्चुके । सोरस्ताडं निज़ान भृत्या-नूचतुर्धावताशु भोः ! ॥३१५॥ विद्युन्मालिनि कान्ते, द्रागष्टापदगिरिं गते । कञ्चुके वादनिर्णीति-रिति ताभ्यां स्वयं कृता ॥ ३१६ ॥ आवयोर्या गृहीतामुं, जित्वा कञ्चुकहारिणम् । तयैव कञ्चुको ग्राह्यः, शपथोऽत्रेष्टदैविकः ॥ ३१७ ॥ ततश्च पैतृकैर्विद्या-धरसैन्यैश्च संयुते । तमन्वगातां ते विद्या-विकृतैः स्वबलैरपि ।।२१८|| आरामनन्दनं दूराद्, दृष्ट्वाऽग्रेजल्पतामिमे । अरे क्क यासि ? नौ हृत्वा, चौरवत् पुष्पकञ्चुकम् ॥३१९।। वनजोऽप्यनयोः सैन्यं, पृष्ठायातं नमोऽङ्गणे । विलोक्य व्याकुलो जज्ञे, पुष्पकञ्चुकरक्षणे ।। ३२० ॥ दध्यौ च गन्तुं नाग्रेऽलं, यद्भर्वेष्टितोऽभिदः । एकोऽहमरिभिर्योद्धा, धर्ता वा कञ्चुकं कथम् ? ॥ ३२१ ॥ विद्याधर्योबलैहेलि-मण्डलाच्छादनादलम् । एकच्छत्रे तमोराज्ये, जाते पश्यामि नो पुरः Page #24 -------------------------------------------------------------------------- ________________ श्री सम्यक्त्वशुद्धिविषये आरामनंदनकथा। ॥१०॥ ॥३२२ ॥ भ्रामं भ्रामं दिशां मोहा-द्विद्याधरबलान्तरे । पतितः किं करिष्यामि', जीविष्याम्यधुना कथम् ॥ ३२३ ॥ इति यावदयं चिन्ता-चान्तोऽभूत् तावदस्य सः । वेतालः स्मृतिमायातः, सतां हि समये मतिः ॥ ३२४ ॥ ततो मुखाद्विनिर्गच्छ-दनलज्वालया तमः । संहरबट्टहासेन, त्रासितारातिसैनिकः ॥ १२५॥ वेतालः प्रकटीभूय, वनसूनुं विनम्य च । उवाच किमहं कुर्वे ?, महाशय ! ममादिश ॥३२६॥ युग्भम् ॥ स साह सैन्यं खेचर्यो-बेताल स्खलयाखिलम् । यावद्वितीर्य भार्याय, कञ्चुकं पुनरेम्यहम् ॥ ३२७ ॥ व्रजामि यद्यहं नाद्य !, निजा ङ्गे तदा मम । कृता प्रतिज्ञाऽसम्पूर्णा, भवत्यत्र विलम्बतः ॥ ३२८ ।। ततस्तु मे प्रिया प्राणान् , जुहोति हुतभुज्यतः । त्वया वैद्याधरं सैन्य-मन्वागच्छन्निवार्थताम् ॥ ३२९ ।। वेतालोऽप्यब्रवीद् भद्र, पुरे वापि मयापि हि । प्रवेष्टुं पस्थिता वह्नौ, ददृशे काऽपि कामिनी ॥ ३३०॥ तन्मन्ये तब जीवेशा, भविष्यतितमामसौ । अतो बज रयात्तत्र, पृष्ठरक्षोऽस्म्यहं ननु ॥ ३३१ ॥ वेतालवचसा तेन, वामाक्षिस्फुरणेन च । ज्ञातप्राणेश्वरीमृत्यु-स्ततो वनसुतोऽचलत् ॥ १३२ ॥ अथ पद्मावती कान्ता, कान्तागमनवासरान् । अपूर्य नर्मदातीरे, नृपमूचे कृताञ्जलिः ॥ ३३३ ॥ वारितापि स्ववर्गेण. नास्था यान्ती चितां प्रति । कपिता शुद्धिमानाय्ये, यचिरं स्थापिता त्वया ॥ ३३४ ॥ अवधौ परिपूर्णेऽपि, नागान् मम वल्लभः । तद्वेव्यमङ्गलं तस्य. सत्यसन्धो यतोऽस्ति सः ॥ ३३५ ।। अतो मामनुजानीहि, चितालिङ्गनकर्मणि । इत्युक्त्वा सा महीपालं, मुत्कलाप्यागमट्टहम् ।। ३३६ ।। ततः स्वोभयपक्षं सा-नुज्ञाप्याभ्यर्च्य देवताः । वितीर्य दानं दीनेभ्यो, ह्यनुकूल्य सखीजनम् ।। ३३७ ॥ | अनुमोद्य कृतं पुण्यं, गर्हितं दुष्कृतं तथा । लोके क्रन्दति हा हेति, चचालाशु चितां प्रति ॥ ३३८ ॥ पश्यतां सर्वलोकानां, १० Page #25 -------------------------------------------------------------------------- ________________ स्मृत्वा पञ्चनमस्कृतिम् । सा स्ववर्गाशु(श्रुभिः सार्द्ध-मदाज्झम्पां चितानले ॥३३९॥ अथोद्यानसुतो वेगा-दागतो नर्मदातटे । धृमव्याप्तं नभोऽपश्य-चितां च ज्वलदग्निकाम् ॥३४०॥ क्रदतः स्वजनांस्तत्र, वीक्ष्यासावित्यचिन्तयन् । वहौ प्रियाऽपतत् स्वभ्रे, मनोरथरथश्च मे ॥ ३४१ ॥ ततो मयूरादुत्तीर्यो-पांशु मुक्त्वा च कञ्चकम् । कान्ताचितासमीपस्थो, वनमूरित्यभापत ।। ३४२ ॥ सतीव्रतधरा मेऽस्ति, यद्यषा प्राणवल्लभा । तदैतस्यां ममापि स्या- शु श्रेयःपरम्परा ॥३४३।। इयुदीर्य प्रियामृत्यु-पापव्ययकृते कृती। सोऽज्ञातः स्वजनैज्ञम्पा-पातं वैश्वानरेऽकरोत् ॥३४४॥ : थानुगैर्युध्यमान-विद्याधरभटेमिथः । वेतालसुभटैश्चापि, तथास्थः स व्यलोक्यत ।। ३४५ ।। ततो जजल्पतुर्विद्या-धरं साश्चर्यमानसे । कञ्चुकं केकिनं मुक्त्वा, चौरः किमकरोद् इदम् ॥३४६॥ चेतालोऽप्यब्रवीद् युद्धा, यदर्थ क्लेशमासदम् । प्राणप्रियः सखा सोऽयं, बहावसाय हाविशत् ॥३४७॥ आगच्छतश्चिताभ्यणे, प्रेक्ष्य वेतालखेचरान् । दूरीभूय स्थिता लोका., किमेतदिति ? सम्भ्रमात् ।।३४८॥ चतुरङ्गचमूयुक्तो, योदुकामो नृपोऽपि हि । वैतालखेचरानीका-भिमुखं वेगतोऽचलत् ॥३४९॥ अथ विद्याधरीसैन्यं, तां चितां परितो भ्रमत् । अग्रहीत् कञ्चुकं दारु-मयूरं च महीस्थितम् ॥३५०॥ अस्मद्भियान्यहेतोर्वा, प्राविशत् तस्करश्चिताम् । इतीव यावत् तां द्रष्टुं, लनेते खेचरप्रिये ॥ ३५१ ।। तावद्वनभुवं तत्र, प्रियापद्मावतीयुतम् । अक्षताङ्गं निरीक्ष्योमे, खेचर्याविदमृतुः ॥ ३५२ ।। अहो अहो प्रविष्टोऽपि, यदेषोऽनौ सवल्लभः । स्वर्णासने स्थितो हंस-युग्मवद्राजतेऽम्बुजे ॥ ३५३ ॥ तयोरिति गिरः श्रुत्वा, कौतुकोचानमानसाः। वेताला खेचरा राजा, स्वजनाश्च समीयरुः ॥ ३५४ ॥ अहो पद्मावतीशील-माहात्म्यं यदियं चिता प्रज्वलज्वलनज्वाला, जालाप्यजनि शीतला ॥ ३५॥ इति बन्दिष्विवैतेषु, जल्पत्सु वनसूस्ततः । Page #26 -------------------------------------------------------------------------- ________________ सम्यक्त्वशुद्धिविषये | आराम नंदनकथा। ॥११॥ निर्गत्य सप्रियः पृथ्वी-पतिं जोदकरोन्मुदा ॥३५६।। राज्ञाऽप्याश्लिष्य स स्नेहात, पृष्टोऽथ वननन्दनः । सर्व कचकवृत्तान्तं, यथावत् प्रत्यपीपदत् ॥३५७॥ पितृभ्यां स्वजनैश्चायं, परिरभ्याभ्यनन्द्यत । वत्से ! पुत्रवती भूया, इति पद्मावती तथा ॥३५८॥ ज्ञात्वा कञ्चुकवृत्तान्त-मथ विद्याधरप्रिये । मुक्त्वा च तस्मिनिर्बन्ध-मिति चेतसि दध्यतुः॥३५९॥ दम्पन् पोरनयोः प्रीतिरहो!! कापि परस्परम् । यदाभ्यां विरहाद्दत्ता, झम्पा ज्वालाकुलेऽनले ॥३६० ।। प्रमोदमेदुरान् दृष्ट्व, स्वजनांस्तस्य सङ्गमात् । गतरोषे खचारिण्या चौचित्यादेत्य सन्निधौ ॥ ३६१ ॥ पुष्पकञ्चुकमानाय्य, भृत्येभ्यः कमलावतीम् । पर्यधापयतां दिव्या-मोदनन्दितनासिकम् ।। ३६२ ॥ युग्मम् । वेतालखेचरीवर्ग-राजस्वजनसंयुतः। वनजो गजमारूढः, सोत्सवं स्वगृहेऽविशत् ।। ३६३ ।। रत्नभूषणदानेन, सत्कृत्य पृथिवीपतिम् । देवघ्योपमैत्रः, सन्तोष्य स्वपरिन्छ म् ।। ३६४ ॥ योजिताञ्जलिबन्धेन, खेचयी प्रणिपत्य ते । याचकान् पोषयित्वा च, वनसूनुय॑सर्जयत् ॥ २६५ ॥ युग्मम् । वेतालादपि सौवर्ण-नरमानाय्य मन्दिरे । न्यासीकृत्य च भक्त्या तं, विससर्ज वनात्मजः ।। ३६६ ॥ स ततः स्नानमास या-हंद्विम्बानि प्रपूज्य च । दानं दत्वा सुपात्रेभ्यो, बुभुजे स्वजनैः समम् ।। ३६७ ।। परीक्षितस्वपुण्योऽयं, दृष्टकान्तासतीत्रः। उद्याननन्दनोऽकार्षीत् , सफलां गृहमेधिताम् ॥ ३६८ ॥ अथान्येद्यविरुद्याने, सचक्रप्रतिबोधकृन् । केवलज्ञानभृदान-भानुर्भानु रिवाऽऽययौ ॥ ३६९ ॥ श्रुत्वा तदागर्म पद्मा-वनीयुक्तो वनात्मभूः। गत्वा केवलिन भक्त्या, नत्वा चोपाविशत् पुरः Vi॥३७० ।। सर्वजीवहितां धर्म-देशनां मुनिपुङ्गवः । पारेभे रभसा मुक्ति-प्रेगसीदतिकामिव ।। ३७१ ॥ सर्वेषां धर्मकृत्यानां, मूलं सम्यक्त्वमुच्यते । तच्च देवे गुरौ तत्वे, सम्यक्श्रद्धानतो भवेत् ॥ ३७२ ॥ देवोऽष्टादशदोषाणां, हर्ता कर्ता शिवधि ॥ Page #27 -------------------------------------------------------------------------- ________________ याम् । निरवद्यक्रियाज्ञान- धरो गुरुरुदाहृतः ॥ ३७३ ॥ तत्त्वं तद्येन जायेत, भूतेषु समतामतिः । इति सद्दर्शनं जीवा, लभन्ते कर्मलाघवात् || ३७४ ॥ ततः श्राद्धस्य साधोथ, धर्म्ममाराध्य शुद्धधीः । क्रमात्कर्मक्षयं कृत्वा, श्रयते परमं पदम् ||३७५ || इति व्याख्याऽमृतं पीत्वा वनभूः श्रुतिशुक्तिभिः । गुरोः सम्यक्त्वमादाय, सजायः स्वाश्रयं ययौ ॥ ३७६ । छिन्नप्ररूढसौवर्ण- पुरुषाङ्गात्तकाञ्चनैः । धर्मस्थानानि भोगांव, स प्रत्यहमपू पुषत् ॥ ३७७ ॥ वनमूनुमनुज्ञाप्य, संसारोद्विनानसौ । पितरौ सुरोरात - चारित्रौ दिवि जग्मतुः ॥ ३७८ ॥ ततो दनसुतो भावा- दहत्पूजादिकोत्सवैः । लक्ष्मीपुरपुरं चक्रे धर्माद्वैतमयं सुधीः ||३७९|| रत्नरूप्यस्वर्णपूर्ण कलशस्वमसूचितः । क्रमेण कमलावत्या, सुषवे तनयोऽद्भुतः ॥ ३८० । कारयित्वोत्सर्वं स्वमा-नुसाराद्वननन्दनः । द्वादशाहे शिशोः पूर्ण-कलशेत्यभिधां व्यधात् || ३८१|| पितृभ्यां जातहप पाल्यमानः शिशुः क्रमात् । अवीतसर्वशास्त्रार्थ - स्तारुण्यं पुण्यमासदत् || ३८२|| महेभ्यकुलजाताभिः कन्याभिः पाययत् । पिता तं तनयं शिष्पं, विद्याभिरिव सद्गुरुः || ३८३ || विवाहानन्तरं पूर्ण - कलस्या (शा) ङ्गे ज्वरं सुरी । काप्यारामजनकत्व -शोभा र्थदपादयत् ||३८४|| स तेन पीडितो लुप्त-चेतनो व्यद्भुवि । वैद्याद्यसाध्यो यत्किञ्चित् प्रलापं कुरुते स्म च ॥ २८५॥ इतच मान्त्रिकः कोऽपि, साहङ्कारः पुरे भ्रमन् । प्रतीकारकृतेऽनायि, वनजेनाङ्गजन्मनः || ३८६ ॥ सोऽपि मण्डलमापूर्य, कन्यां तत्र निवेश्य च । मन्त्रावानपरो देवीं खङ्गेऽवातारयद् रयात् ।। ३८७ ॥ अस्य पात्रस्य गात्रे किं ?, रोगो दोषोऽथवाऽस्ति हि । इति कन्यामुखात् तेन, पृष्टा सा देवताऽवदत् ॥ ३८८ ॥ यदसौ पूर्णकलशो, ग्रस्तो दोषेण सर्वतः । अतोऽस्य भावि कीनाश - सरणं शरणं किल ॥ ३८९ ॥ इति तद्वाक्यमाकर्ण्या - मूर्च्छत्पद्मावती शुचा । दनजः Page #28 -------------------------------------------------------------------------- ________________ आरामनंदनकथा। / / 12 / / श्री ना साहसं धृत्वा, मात्रिकं माह पृच्छ भो ! // 390 // सुनः केनाप्युपायेन, जीवत्येषोऽथवा नहि ? / तेनापि कन्यावक्त्रेण, सम्यक्त्व-या पृष्टा देवीत्यवोचत // 391 / / शिशुरस्मान्महादोषा-न्मुच्यते यदि हि स्वयम् / वनसूनुः पद्यक्ष-मर्चयेदन्यथा मृतिः // 392 // शुद्धि- तच्छृत्वा वनजोऽवादीत , सम्यक्त्वस्थैर्यमन्दरः / जीवन्तेऽपि न कुर्वेऽह-मन्यदैवतपूजनम् / / 393 // शरीरी म्रियमाणस्तु, पूर्वविषये बद्धायुपः क्षयात् / रक्ष्यते नैव भृपालै-न देवैर्न च दानवैः // 394 // असम्पूर्णायुरेपोऽपि, रोगदोषशतैरपि / वज्रपञ्जरम ध्यस्थ, इव नो म्रियते क्वचित् // 395 // प्राणेभ्योऽप्यधिकस्यास्य, हितं स्यादथराऽहितम् / तथापि जातु सम्यक्त्व-मालिन्यं न करोम्यहम् / / 396 / / अर्हतः सुगुरूंश्चैव, मुक्त्वा साधार्मकांस्तथा / नमयामि न मृद्धन-मन्येषामिति निश्चयः / / 397 // एकस्मिस्तु भवे पुत्रा, भवन्ति सुखदा न वा / भवे भवे भवेत् सम्यग्-दृष्टिः श्रेयस्करी नृणाम् // 398 // अतस्त्वं मात्रिकश्रेष्ठ श्राग्विराजय मण्डलम् / यद्यस्य विपुलं ह्यायु-स्तदा प्राणिष्यति खयम् // 39 / / इति तेनोदिते यावन् , मात्रिको मण्डलं किल / विस्रष्टुमलगद तावत्, सा सुरी प्रकटाऽभवत् // 400|| ऊचे च वनरु नो! त्वं, धन्योऽस्वतन्मया कृतम् / त्वत्सम्यक्त्वपरीक्षार्थ, निरुगेवास्ति ते सुतः / / 401 / / इत्युक्त्वा सा तिरोभूता, पूर्णकु मोऽपि निर्गतः / प्रेयसीभिः समं भोगान् , भुञ्जानः कालमत्यगात् // 402 // वनसूरपि सम्यक्त्वं, प्रपाल्य गत दुषणम् / सम्पूर्णायुः शुभध्यानः; प्रियस्त्रिदिवं ययौ // 403 / / इत्यारामसुतस्य चरित्रम्, श्रुत्वा भव्य जना! अतिचित्रं / सम्यक्त्वं स्वीकरत नितान्त. ग्रेने प्रामुत मक्षु भवान्तम् // 404 // इति सम्यक्त्वे आरामनन्दनकथा सम्पूर्णा / / क'